"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
:जयन्त्युत्सवाः
:प्रादेशिकपर्वाणि इति ।
:अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – गान्धीजयन्ती, नेहरूजयन्ती (बालदिनाचरणम्) इत्यादयः जयन्त्युत्सवाः, [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनाचरणं]], [[गणतन्त्रदिनम्|गणतन्त्रदिनम्]] इत्यादीनि राष्ट्रियपर्वाणि च ।
 
 
पङ्क्तिः २४:
 
 
अद्य गृहेषु अस्माकं सम्प्रदायान्, सांस्कृतिकानि मौल्यानि, धर्मसूक्ष्माणि च बोधयितारः वृद्धाः न सन्ति । विद्यमानाः गृहिणिगृहस्थाः आर्थिकसम्पादने निरताः । बालाः दूरदर्शन-सङ्गणकादिषु सम्पर्कमाध्यमेषु लीनाः । एवं सति पर्वादीनां पृष्ठभूमिका वा महत्त्वं वा कथं ज्ञायेत बालैः ? अतः अद्यतनजगति पर्वाचरणं स्वादुभक्ष्याणां भोजनेन नूतनवस्त्राणां धरणेन च समाप्यते एव । भक्ष्यवस्त्रादीनि धनं दत्तं चेत् सर्वदा प्राप्यते एव । तर्हि पर्वणः वैशिष्ट्यं किम् ? इति पृष्ठे सति एवम् उत्तरं भवेत् - कृतज्ञतासमर्पणम्, ऋतुकालानुगुणम् आहारक्रमः, बान्धव्यवर्धनं, धार्मिकाचरणं, स्वच्छतारक्षणं चेति बहूनि वैशिष्ट्यानि सन्ति पर्वाचरणस्य । यतः अद्यतनजगति सर्वेपि अत्यन्तं कार्यव्यग्राः भवन्ति । “समयाभावः” इत्येषः शब्दः सदा सर्वेषां मुखात् निस्सरति । अतः पर्वव्याजेन परस्परं बान्धवानां मेलनं भवेत्, गृहस्य तथा पूजावस्तूनां स्वच्छता भवेत्, वर्षे कतिपयवारं वा धार्मिकविधीनाम् आचरणं भवेत्, अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् च । अनेन क्रमेण विस्म्रियमाणा अस्माकं [[भारतीयसंस्कृतिः|भारतीयसंस्कृतिः]] पुनः स्मर्येत ।
 
 
पङ्क्तिः ३०:
:१. “प्रदक्षिणम्” – मनसि देवमेव स्मरन्तः दक्षिणभागतः वामभागं भ्रमणम् ।
:२. “साष्टाङ्गनमस्कारः” – शरीरस्य अष्टौ अपि अवयवाः यथा भूमिं स्पृशेयुः तथा नमस्करणम् ।
:३. “नैवेद्यम्” – देवाय समर्पणयोग्यं किञ्चित् वस्तु [[पुष्पम्|पुष्पम्]], [[फलम्|फलम्]], खाद्यम् यत्किञ्चित् ।
:४. “प्रसादः” – देवाय समर्पणानन्तरम् अवशिष्टम् ।
:५. “तीर्थम्” – पवित्रं [[जलम्|जलम्]]
:६. “पञ्चामृतम्” – [[दुग्धम्|दुग्धं]], [[दधि|दधि]], [[घृतम्|घृतं]], [[मधु|मधु]], [[शर्करा|शर्करा]] चेति पञ्चानाम् अमृतसदृशाणां पदार्थानां सम्मिश्रणम् ।
:७. “पञ्चगव्यम्” – गोक्षीर-दधि-घृत-[[गोमूत्रम्|गोमूत्र]]-[[गोमयः|गोमयानां]] मिश्रणम् ।
:८. “अभिषेकः” - देवस्य मङ्गलस्नानम् ।
:९. “अभिघारम्” – [[अन्नम्|अन्नस्य]], नैवेद्यस्य, होमद्रव्याणां वा उपरि प्रथमं परिवेष्टव्यं घृतम् ।
:१०. “आपोशनम्” – भोजनात् पूर्वं प्राक् च मन्त्रपूर्वकं सेव्यमानं जलम् ।
:११. “अर्घ्यम्” – हस्तप्रक्षालनार्थं दीयमानं जलम् ।
पङ्क्तिः ४४:
:१५. “पञ्चाङ्गम्” – तिथि-नक्षत्र-वार-योग-करणानि च ।
:१६. “मङ्गलकलशः” – व्रत-विवाह-यज्ञ-यागादिषु शुभावसरेषु स्थाप्यमानः जलपूरितकलशः ।
:([[सुवर्णम्|स्वर्ण]]-[[रजतम्|रजत]]-[[ताम्रम्|ताम्र]]-[[कांस्यम्|कांस्य]]-[[पित्तलम्|पित्तल]]-[[मृत्तिका|मृत्तिकायाः]] वा स्यात् कलशः)
:१७. “उपवासः” – समीपे वासः (देवस्य समीपे इत्यर्थः) ।
 
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्