"दीपावलिः" इत्यस्य संस्करणे भेदः

कार्त्तीकमासस्य कृष्णपक्षस्य ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४२:
:'''वैवस्वताय कालाय सर्वभूतक्षयाय च ॥'''
:'''औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।'''
:"'''वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥“'''
 
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै [[तिलः|तिल]]तर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, [[अश्वः|अश्व]]शालासु, [[गजः|गज]]शालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्