"इहैव तैर्जितः सर्गो..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''इहैव तैर्जितः सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

११:२३, १३ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥


पदच्छेदः

इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥


अन्वयः

येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः ।

पदार्थः

येषाम् = ज्ञानिनाम्
साम्ये = गोब्राह्मणशुनकादौ समानतायाम्
मनः = चित्तम्
स्थितम् = स्थितम्
तैः = समदर्शिभिः
सर्गः = संसारः
इह एव = अस्मिन् भूलोके एव
जितः = विजितः
हि = यस्मात्
समम् = सर्वेषु अपि प्राणिषु समत्वेन स्थितम्
ब्रह्म = परवस्तु
निर्दोषम् = दोषरहितम्
तस्मात् = अतः
ते = ज्ञानिनः
ब्रह्मणि = परमात्मनि
स्थिताः = अवस्थिताः ।

तात्पर्यम्

अयम् उच्चः अयं नीचः इति बुद्ध्यभावात् ये सर्वेषु अपि प्राणिषु समानाः भवन्ति ते जीवन्तः एव अस्मिन् लोके सर्वथा विनष्टसंसारबन्धाः सन्ति । इदं ब्रह्म निर्विकारं सर्वेषु प्राणिषु समानं च । तस्मात् ते तत्रैव सर्वदा भवितुम् इच्छन्ति ।

बाह्यसम्पर्कतन्तुः

sa:भगवद्गीता

"https://sa.wikipedia.org/w/index.php?title=इहैव_तैर्जितः_सर्गो...&oldid=126925" इत्यस्माद् प्रतिप्राप्तम्