"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः

thumb|right|300px|गीतोपदेशः :'''लभन्ते ब्रह्मनिर्व... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०४:५५, १५ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥


पदच्छेदः

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥'


अन्वयः

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।

पदार्थः

क्षीणकल्मषाः = नष्टपापाः
छिन्नद्वैधाः = अपगतसंशयाः
यतात्मानः = जितेन्द्रियाः
सर्वभूतहिते = सर्वभूतसुखे
रताः = आसक्ताः
ऋषयः = मुनयः
ब्रह्मनिर्वाणम् = मोक्षम्
लभन्ते = प्राप्नुवन्ति ।

तात्पर्यम्

येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः

sa:भगवद्गीता