"सबाधधावनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==सबाधधावनम् (हर्डल् HURDLHURDLE दौड)==
[[File:110 m hurdles.jpg|thumb|110 m hurdles|360px]]
पलायमानो जनः पथि समागतानि स्थूलानि लघूनि वा गत्यवरोधकारीणि वस्तूनि समुल्लङ्ध्यात्मनो रक्षार्थं धावत्येव । ईदृशीं स्थितिं विलोक्य मन्ये विचार कैस्तादृशधावनाविषयेऽपि चिन्तितम् । प्रकारा गवेषिताः, नियमा निर्धारितस्तथा प्रशिक्षणविधिः प्रवर्तितः । प्रतियोगितासु स्थानं प्राप्य कलेयमपि विकसिता । यद्यपीदृशस्य धावनस्य वर्णनं प्राचीनयूनाने सम्पन्नेषु विश्वक्रीडोत्सवेषु न लभ्यते तथापि साम्प्रतमस्य प्रचलनं प्रतियोगितासु दृश्यत एव । प्रारम्भे हर्डल्-धावनरुपेण वर्तमानपद्धतेः प्रयोगो नाभूत तथापि तदानीमेकत्र किमपि भारवद् वस्तु संस्थाप्य तदुल्लङ्घ्नप्रयासपूर्वकं धावनं क्रियते स्म । परं तेन वस्तुना सङ्घ्ट्ट्य क्रीडक आहतोपि भवति स्म । ततस्तं रक्षितुं तेदभयपार्श्वयोर्यष्टिद्वयमाधारार्थमारोपितमक्रियत, यदाधारेणेत्प्लुत्य धावकोऽग्रे वर्धते स्म । इदानीं नास्ति तादृशी स्थितिः । अधुनाऽवरोधदण्डो (हर्डल्)ऽतीव सामान्यो भाररहितः प्रयुज्यते भूमावेवमेव स्थाप्यते येन सामान्यसङ्घट्टनेनैव स पतति तत अभिघातस्य भयं नास्ति, उत्पलवनकाले हस्तयोः कार्यं तथैव भवति यथा सरलधावने भवति ।
"https://sa.wikipedia.org/wiki/सबाधधावनम्" इत्यस्माद् प्रतिप्राप्तम्