"अवन्ती" इत्यस्य संस्करणे भेदः

अवन्तीराज्यम् पश्चिमभारते सुप्रसिद्धं राज्यम... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
अवन्तीराज्यम् पश्चिमभारते सुप्रसिद्धं राज्यम् आसीत् । [[बौद्धधर्मः|बौद्धधर्मस्य]] उदयकाले विद्यमानेषु प्रसिद्धेषु चतुर्षु राजप्रभुत्वेषु अन्यतमम् आसीत् । अन्यानि त्रीणि राजप्रभुत्वानि [[कोसलः|कोसलराज्यं]], [[वत्सः|वत्सराज्यं]], [[मगधः|मगधराज्यं]] च । अवन्तीराज्यस्य मध्ये प्रवहन्ती [[वेत्रावतीनदी|वेत्रावतीनदी]] अवन्तीराज्यम् उत्तर-अवन्तीराज्यं, दक्षिण-अवन्तीराज्यं चेति विभागं करोति स्म । अवन्तीराज्यस्य आरम्भकाले दक्षिण-अवन्तीराज्यस्य राजधानी आसीत् [[माहिष्मतीनगरम्|माहिष्मतीनगरम्]] । उत्तर-अवन्तीराज्यस्य राजधानी आसीत् [[उज्जयिनीनगरम्|उज्जयिनीनगरम्]] । अनन्तरं [[महावीरः|महावीर]][[बुद्धः|बुद्धयोः]] काले उज्जयिनीनगरम् एव समग्रस्य अवन्तीराज्यस्य राजधानी अभवत् । अवन्तीराज्यस्य इदानीन्तन[[माल्वरज्यम्|माल्वराज्येन]], [[निर्मार्राज्यम्|निमार्राज्येन]], [[मध्यप्रदेशः|मध्यप्रदेशस्य]] कैश्चित् भूभागैः सह अस्पष्टं सादृश्यम् आसीत् । माहिष्मतीनगरम् उज्जयिनीनगरं च दक्षिणं प्रति गमनस्य मुख्यमार्गसमीपे स्थापिते आस्ताम् । एते नगरे [[राजगृहम्|राजगृहतः]] [[प्रतिष्ठानम्|प्रतिष्ठान]]पर्यन्तं (इदानीन्तन[[पैथान्-नगरम्|पैथान्-नगरम्]]) विस्तृते आस्ताम् । अवन्तीनगरम् बौद्धधर्मस्य प्रमुखं केन्द्रम् असीत् । अवन्तीराज्यस्य [[राजा नन्दिवर्धनः|राजा नन्दिवर्धनः]] मगधस्य [[राजा शिशुनागः|राज्ञेन शिशिनागेन]] पराजितः । तदनन्तरं कालान्तरे अवन्तीराज्यं मगधराज्ये अन्तर्भूतम् ।
 
[[वर्गः:भारतस्य इतिहासः|अवन्ती]]
[[वर्गः:प्राचीनभरतम्|अवन्ती]]
"https://sa.wikipedia.org/wiki/अवन्ती" इत्यस्माद् प्रतिप्राप्तम्