"ओणम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[File:Pookalam2009onam.jpg|thumb|right|200px|पुष्पालङ्कारः]]
भूलोकं प्रति महाबलिनः आगमनं निमित्तीकृत्य '''ओणम्''' ([[मलयाळम्]]:ഓണം) उत्सवः आचर्यते। ओणं-पर्वकाले महाबलिनः, तथा तं पातालं प्रति प्रेषितवतः वामनस्य च पूजा क्रियते। चतुरस्राकारके मृत्पिण्डे महाबलिनः विष्णोः च आवाहनं कृत्वा पुष्पादिभिः अलङ्कृत्य पूजा क्रियते। प्राचीनकाले वामनस्य पूजनं न आसीत्। ओणं काले महाबली दशदिनाभ्यन्तरे प्रतिगृहम् आगत्य योगक्षेमादिकं परिशीलयति इति केरलीयाः भावयन्ति। अतः ते तस्य स्वागतार्थं विशेषव्यवस्थां कुर्वन्ति। प्रतिगृहं स्वच्छीक्रियते, अलङ्क्रीयते च । उषसि एव देहल्याः पुरतः पर्ण-पुष्प-वर्णचूर्णादिभिः आकर्षकतया रङ्गवली विरच्यते। पुष्पाकारकाः ताः 'पूक्कळम्' इति मलयाळभाषया निर्दिश्यन्ते। जनाः नूतनानि वस्त्राणि धृत्वा परस्परम् उपायनानि यच्छन्ति। नृत्यादिभिः चक्रवर्तिनः स्वागतं कुर्वन्ति।
दशदिनात्मके एतस्मिन् उत्सवकाले रुचिकराणि खाद्यानि सज्जीक्रियन्ते। ओणं-सम्बद्ध्ं 'कैकॊट्टिक्कळि' नामकं नृत्यप्रकारम् अवलम्ब्य महिलाः नृत्यन्ति।
 
=='''ओणाङ्गतया नौकास्पर्धाः'''==
[[File:Kerala_boatraceKerala boatrace.jpg|thumb|center|800px|नौका क्रीडा।]]
एतस्य उत्सवकालस्य प्रमुखम् आकर्षणं नाम-अनतिगम्भीरे जले नौकास्पर्धायाः आयोजनम्। एताः काष्ठनिर्मिताः नौकाः फणाम् उन्नीतवतः सर्पस्य आकारेण भवन्ति। स्पर्धादिने एतासु नौकासु शताधिकाः नौकाचालकाः उपविश्य समूहशक्त्या नौकां चालयन्ति। तदवसरे न केवलम् एताः दीर्घनौकाः अपि तु लघुनौकाः, बालैः चाल्यमानाः उडुपाः चापि दृश्यन्ते नदीषु। एवम् अयम् उत्सवः केरळीयेषु आनन्दम् उत्साहं च महता प्रमाणेन पूरयति।
 
 
=='''पर्वाचरणसम्बद्धा पुराणकथा'''==
"https://sa.wikipedia.org/wiki/ओणम्" इत्यस्माद् प्रतिप्राप्तम्