"केदारनाथः" इत्यस्य संस्करणे भेदः

द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति केदारे... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति केदारेश्वरमन्दिरम् । एतदेकं प्राचीनं शिवक्षेत्रम् । केदारनाथः यत्र अस्ति हिमालयस्य तं भागं “रुद्रहिमालयः” इति वदन्ति । अयं पर्वतः “सुमेरुपर्वतः” “पञ्चपर्वतः” इत्यपि उच्यते । अत्र रुद्रहिमालयः, विष्णुपुरी, ब्रह्मपुरी, उद्गरिकान्ता, स्वर्गारोहणम् इति पञ्च पर्वताः सन्ति । अतः एव अस्य नाम “पञ्चपर्वतः” इति । [[गन्धमादनः|गन्धमादनः]] [[रुद्रहिमालयः|रुद्रहिमालयस्य]] कश्चन भागः । स्वर्गारोहणशिखरस्य आरोहणावसरे [[धर्मराजः|धर्मराजस्य]] अनुजाः शरीरत्यागम् अकुर्वन् । अस्य तीर्थक्षेत्रस्य परिसरः वर्णनातीतः । अनन्तात्मनः नित्योपासकानि इव स्थितानि तुषारवेषधारीणि गगनस्पर्शिशिखराणि । अट्टहासेन उत्थाय विस्तारम् अपि प्राप्य पुनः कालगर्भे लीनानाम् असंख्यानां चक्राधिपत्यानां मूकसाक्षी अयं पर्वतः । अस्य पर्वतस्य नीरवत्वं निर्जनत्वं च भवसागरे दुःखितानाम् औषधम् इव अस्ति । कुत्रापि अल्पत्वम् इति नास्ति । सर्वत्र भूमवादः एव ।
 
अयं पर्वतः २३,००० पादमितम् उन्नतः अस्ति । मन्दिरं ११,७८० पादमितम् उन्नते स्थाने अस्ति । केदारं प्रति गमनमार्गे अनेकानि रम्यदृश्यानि सन्ति । मार्गस्य उभयोः पार्श्वयोः भीमाकारकः हिमराशिः महागजः इव पतितः भवति । नदी [[मन्दाकिनी|मन्दाकिनी]] हिमस्य अधः एव शतद्विश्तपादं यावत् प्रवह्य उपरि आगच्छति । गिरिभ्यः अनेकाः झर्यः प्रवहन्ति । काश्चन झर्यः मन्दाकिन्याम् अन्तर्भवन्ति । काश्चन भीमाकारिकाः झर्यः शताधिकपादं यावत् एकधा एव कूर्दन्ति । जलस्य प्रमाणं वेगं च पश्यामः चेत् [[शिवः|शिवस्य]] ताण्डवनृत्यस्य स्मरणं भवति ।
 
हिमाच्छादितशिखराणां मध्ये विराजमानं केदारेश्वरमन्दिरं दृष्टवत्सु भक्तेषु विद्युत्सञ्चारः भवति । तावत्पर्यन्तम् आगमने जातः श्रमः विस्मर्यते एव । अस्य केदारेश्वरमन्दिरस्य गर्भगृहे महत् शिवलिङ्गम् अस्ति । ४ पादमिता रूक्षा महाशिला एव अत्रत्यं लिङ्गम् । अर्धगोलाकारकस्य अस्य लिङ्गस्य वैशाल्यम् एव ६ पादमितम् । अत्र शिल्पिभिः किमपि कार्यं न कृतम् । अत्र भक्ताः भगवता सह हृदयभाषया सम्भाषन्ते । [[गङ्गा|गङ्गायाः]] [[यमुना|यमुनायाः]] च उदकम् आनीय शिवलिङ्गस्य अभिषेकं कारयन्ति । शिवलिङ्गम् आलिङ्ग्य सन्तोषम् अनुभवन्ति, अश्रूणि स्रावयन्ति, नवनीतं लेपयन्ति च । अन्तः अखण्डज्योतिः ज्वलति । तत्र श्री[[कृष्णः|कृषणस्य]] शिवस्य [[पार्वती|पार्वत्याः]] च विग्रहाः सन्ति । मन्दिरस्य बहिर्भागे ईशान्यकुण्डम्, अमृतकुण्डम्, हंसकुण्डं, रेतसकुण्डम् इत्याख्यानि तीर्थानि सन्ति ।
 
अनादिकालादपि एतत् क्षेत्रं यात्रिकान् आकर्षति । [[महाभारतम्|महाभारतस्य]] अनुगुणं [[पाण्डवाः|पाण्डवाः]] अत्र बहुवारम् आगताः आसन् । [[अर्जुनः|अर्जुनः]] अत्रैव तपः आचर्य पाशुपतास्त्रं प्राप्तवान् । अर्जुनस्य पुनरागमने विलम्बः जातः इति कारणात् तम् अन्विषन्तः अन्ये अपि पाण्डवाः अत्र आगताः । अत्रैव [[दौपदी|द्रौपदी]] सौगन्धिकापुष्पस्य सुगन्धेन आकृष्टा अभवत् । पण्डवानाम् अन्तिमं प्रस्थानम् अपि अत्रैव अभवत् । [[शङ्कराचार्यः|शङ्करभगवत्पादानां]] निर्वाणम् अभवत् अस्मिन् क्षेत्रे एव । केदारेश्वरमन्दिरात् पर्लाङ्ग् द्वयस्य दूरे अस्ति तस्य समाधिः ।
 
गौरीकुण्डतः केदारपर्यन्तः ११मैल् परिमितः मार्गः अत्यन्तं दुर्गमः अस्ति । परन्तु तत्रत्या प्रकृतिः श्रमं विस्मारयति । गौरीकुण्डे उष्णजलस्य स्रोताः सन्ति । [[कार्त्तिकॆयः|कार्त्तिकेयं]] प्रसूतवती [[गौरी|गौरी]] अत्र स्नानम् अकरोत् इति । यात्रिकाः अपि अत्र भक्त्या स्नान्ति । गुप्तकाशीतः अनति दूरे एव त्रिजुगीनारायणक्षेत्रम् अस्ति । अत्र नारायणास्य मन्दिरम् अस्ति । रुद्रकुण्डं ब्रह्मकुण्डं च अस्ति । यात्रिकाः अत्र कुण्डद्वये स्नात्वा सरस्वतीकुण्डे तर्पणं कुर्वन्ति । श्रीमन्नारायणास्य नाभितः प्रवहन्ती सरस्वती सरस्वतीकुण्डं प्रविशति । नारायणमन्दिरस्य पुरतः विद्यमानम् अग्निकुण्डं [[त्रेतायुगम्|त्रेतायुगतः]] एव ज्वलत् अस्ति इति वदन्ति । अस्य एव अग्निकुण्डस्य सम्मुखे शिवपार्वत्योः विवाहः सञ्जातः इति । यात्रिकाः अस्मिन् कुण्डे घृतं स्थापयन्ति ।
शैत्यकाले केदारः सम्पूर्णतया हिमावृतः भवति । वैशाखमासे [[सूर्यः|सूर्यस्य]] मेषराशिं प्रति प्रवेशदिने मन्दिरम् उद्घाट्यते । सूर्यस्य वृश्चिकराशिप्रवेशदिने मन्दिरस्य पिधानं क्रियते । तदवधौ उखीमठे केदारेश्वरस्य पूजा प्रचलति । हरिद्वारस्य कुम्भमेलावसरे केदार-बदरि-यात्रायाः महत्त्वम् अधिकम् । अर्धकुम्भमेलावसरे अपि यात्रिकाः केदारबदरीयात्रां समाप्य एव प्रतिगच्छन्ति । केदारयात्रां विना बदरीयात्रा पूर्णा न भवति । केदारं प्रति गन्तारः यात्रिकाः प्रथमं जमुनोत्रीं गङ्गोत्रीं च गत्वा ततः केदारेश्वरस्य अभिषेकार्थं जलं स्वीकुर्वन्ति । अनन्तरं [[हरिद्वारम्|हरिद्वारं]], ततः [[हृषीकेशः|हृषीकेशं]], ततः [[देवप्रयागः|देवप्रयागं च गत्वा अग्रे यात्राम् अनुवर्तयन्ति । यमुनोत्रीतः उत्तरकाशीं दृष्ट्वा गङ्गोत्रीं गच्छन्ति । अग्रे त्रिजुगीनारायण-गौरीकुण्डमार्गेण केदारं प्राप्नुवन्ति । ह्रुषीकेशतः साक्षात् देवप्रयाग-श्रीनगर-रुद्रप्रयाग-उखीमठस्य मार्गेण अपि केदारं प्रति गन्तुं शक्यते । केदारसमीपे एव नदी मन्दाकिनी उद्भवति । उद्भवस्थानतः ४५ मैल् दूरे रुद्रप्रयागसमीपे [[अलकानन्दा|अलकानन्दां]] मिलति मन्दाकिनी । अस्यां नद्यां स्नानकरणं पुण्यकरम् इति उच्यते ।
[[कुरुक्षेत्रम्|कुरुक्षेत्र]]युद्धस्य (महाभारतयुद्धे) कारणतः पाण्डवाः दुःखिताः आसन् । तदा भगवान् [[वेदव्यासः|वेदव्यासः]] तान् केदारेश्चरं पूजयितुम् उक्तवान् । तथा कृत्वा पाण्डवाः मनःशान्तिं प्राप्तवन्तः । तदवसरे ते अत्र [[कुन्ती|कुन्ती]]-दौपदीसहिताः आगताः आसन् । अत्रैव ते पूजां तपः च आचरन् । तेषां सप्तजनानाम् अपि मूर्तयः सन्ति अत्र । पाण्डवाः एव एतत् मन्दिरं निर्मितवन्तः इति वदन्ति । पाण्डवाः यदा महाप्रस्थानार्थम् अत्र आगताः तदा तान् दृष्टवान् शिवः [[महिषः|महिष]]रूपेण धावितुम् आरब्धवान् इति । तत् ज्ञातवन्तः पाण्डवाः तं ग्रहीतुं प्रयत्नम् अकुर्वन् । तदा महिषरूपः शिवः भूम्याः अन्तः प्रवेष्टुम् उद्युक्तः । तावता तं [[भीमः|भीमः]] गृहीतवान् । भीमस्य ग्रहणात् विमोचनस्य प्रयत्नावसरे तस्य महिषरूपस्य शिवस्य पृष्ठभागः केदारे शिष्टः । एवं भूमिं प्रविष्टवान् शिवः पञ्चसु स्थानेषु गोचरः जातः । बाहौ तुङ्गानाथे, मुखं रुद्रनाथे, नाभिः मध्येश्वरे, जटा कल्पेश्वरे, पृष्ठभागः केदारे दृष्टाः । एतानि पञ्चक्षेत्राणि योजयित्वा पञ्चकेदाराः इति उच्यते ।
[[शिवपुराणम्|शिवपुराणस्य]] [[कोटिरुद्रसंहिता|कोटिरुद्रसंहितायां]] केदारेश्वरसम्बद्धा काचित् कथा अस्ति । नरनारायणौ बदरिकाश्रमे तपः आचरन्तौ आस्ताम् । तौ तदवसरे शिवस्य पार्थिवलिङ्गस्य पूजां कुर्वन्तौ आस्ताम् । तयोः तपसा तुष्टः शिवः प्रत्यक्षः जातः । तदा नरनारायणौ शिवं “ज्योतिर्लिङ्गरूपेण अत्रैव निवसतु” इति प्रार्थितवन्तौ । तदनुगुणं केदारे शिवः केदारेश्वरनाम्ना अतिष्ठत् ।
 
[[वर्गः : भारतस्य तीर्थक्षेत्राणि|केदारेश्वरः]]
[[वर्गः : हिन्दुधर्मः|केदारेश्वरः]]
 
[[bn:জ্যোতির্লিঙ্গ]]
"https://sa.wikipedia.org/wiki/केदारनाथः" इत्यस्माद् प्रतिप्राप्तम्