"गजः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः १:
[[File:Elephant near ndutu.jpg|thumb|आफ्रिकादेशीयः गजः]]
==शारीरकलक्षणानि, विविधानि नामानि च==
मृगजातौ '''गजः''' बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः । कर्णौ शूर्पे इव अति विशालौ । नेत्रे तु ल्घ्वाकारकौ । तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति । अस्य मुखे अनेके दन्ताः सन्ति । मुखात् बहिः निर्गतौ दृढौ तीक्ष्णै च द्वौ दन्तौ स्तः । तस्मात् एव अस्य द्विरदः, दन्ती, दन्तावलः इति नामानि प्राप्तानि ।
गजस्य आनने लम्बमानः एकः दीर्घावयवः अस्ति । सः अवयवः शुण्डा इत्युच्यते । एषा शुण्डा गजस्य हस्तः इति कथ्यते । तेन कारणेन दन्तावलस्य हस्ती करी इति च नामनी स्तः । अस्माभिः हस्तः यथा उपयुज्यते तथैव गजेन शुण्डा उपयुज्यते । शुण्डया अयं बहूनि कार्याणि कर्तुं शक्नोति । भूमौ स्थितां सूचीमपि हस्ती पश्यति, करेण गृह्णाति च । गजानां शुण्डा एव नासिका । तया एव जिघ्राति । शुण्डायाः अस्न्ते रन्ध्रमस्ति । तेन जलं गृहीत्वा मुखे निक्षिप्य पिबति । एवं द्वाभ्याम् अवयवाभ्यां जलं पिबतीति गजस्य 'द्विपः' इति संज्ञा वर्तते । द्विपस्य कटाभ्यां करात् च मदः स्रवति । अतः अस्य 'गजः' इति 'इभः' इति च पदप्रयोगः दृश्यते । गजवत्सानां कलभाः इति, गजस्त्रीणां करेणवः इति च व्यवहारः ।
[[Image:Decorated Indian elephant.jpg|thumb|left|भारते [[जयपुरम्|जयपुरस्य]] सालङ्कृतगजः]]
पङ्क्तिः ७:
करी शाकाहारी । गजस्य शरीरं विशालं, धूसरवर्णञ्च । सहजसाधुरयं गम्भीरस्वभावः । गमनं तु प्रायः मन्दं भवति । गजस्य रवः घीङ्कारः इत्युच्यते । सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् ।
यः हस्तिनं चालयति सः हस्तिपकः इति कथ्यते । राजानः गजान् आरुह्य विहरन्ति स्म । मृगयार्थम् अपि गच्छन्ति स्म । युद्धेषु गजसेनायाः प्राधान्यम् आसीत् । गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।
:गजजातिः प्राचुर्येण केरल-कर्णाटकराज्ययोः अरण्येषु दृश्यते ।
:१९८२ तमे संवत्सरे अस्मद्देशे प्रचालितेषु नवम-एषियाड्-क्रीडोत्सवेषु 'अप्पु'इति मनोहरः गजः चिह्नत्त्वेन स्वीकृतः आसीत् ।
[[Image:Pooram Elephant 1.jpg|thumb|[[भारते केरलम्|केरलराज्ये]] विद्यमानस्य देवालयस्य गजः]]
"https://sa.wikipedia.org/wiki/गजः" इत्यस्माद् प्रतिप्राप्तम्