"गोकाकजलपातः" इत्यस्य संस्करणे भेदः

गोकाकजलपातः – कर्णाटकराज्ये [[बेळगावीमण्डलम्|... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''गोकाकजलपातः''' – [[कर्णाटक]]राज्ये [[बेळगावीमण्डलम्|बेळगावीमण्डले]] मण्डलकेन्द्रतः ७२कि.मी.दूरे गोकाक् पत्तनमस्ति । ततः ७कि.मी.दूरे एव कर्णाटकस्य नयागरा इति कथ्यमाना गोकाक् जलपातः दृश्यते । तत्र घटप्रभा नदी १८०मी. गहने कन्दरे पतति । जलपातस्य उच्चघोषः कर्णकुहरं बाधते । एषः जलपातः वर्षाकाले केवलं गर्जति ग्रीष्मकाले क्षीणजलः भवति । अगाधा जलराशिः निसर्गोत्कीर्णात् शिलाकन्दरात् कूर्दति । अस्य जलपातस्य सौन्दर्यम् आस्वादयितुं, ग्रामजनानां सौकर्याय च अत्र १७७मी. दीर्घः दोलासेतुः निर्मितः । इतः दृष्टुम् अधिकं धैर्यम् आवश्यकं भवति यतः नद्यः प्रवाहस्य बलाधिक्यात् जलपातः भयानकः अस्ति । नदीजले कुत्रापि स्नानस्य जलखेलनस्य धैर्यं न प्रदर्शनीयं यतः जलप्रवाहस्य वेगः तावान् अस्ति यः स्पृशति सः निमज्जति एव । जूनमासतः अक्टोबर पर्यन्तं जलपातविक्षणार्थं सुकालः । अधोभागे जलविद्युदुत्पादनस्य केन्द्रम् अस्ति ।
राजधानीबेङ्गळूरुतः बेळगावीपर्यन्तं रेल् यानानि अधिकानि सञ्चरन्ति । सर्वकारीयाणि बस् प्रतिरात्रं चलन्ति । बेङ्गळूरुतः साक्षात् गोकाक् पर्यन्तं गत्वा ततः ६कि.मी.दूरं भाटकयानेन सञ्चरितुं शक्यते । भोजनावासादिव्यवस्थाः गोकाक् पत्तने भवितुमर्हति । जलपातस्य परिसरे वसतिभोजनादिव्यवथा अस्ति किन्तु मिता अस्ति ।
"https://sa.wikipedia.org/wiki/गोकाकजलपातः" इत्यस्माद् प्रतिप्राप्तम्