"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: kk:Локаята Modifying: en:Cārvāka
(लघु) gen fixes using AWB
पङ्क्तिः २:
<br>
<br>
चार्वाकदर्शनं (Charvaka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । चिन्तनगाम्भीर्यदृष्टया पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं [[दर्शनम् | दर्शनं]] चार्वाकदर्शनम् इति । [[बृहस्पतिः]] एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते । चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते । चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति । चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति । किन्तु एतावता न निर्णेतव्यं यत् ते भोगैकतत्पराः दुराचाराः च आसन् इति । अहिंसा, शान्तिप्रियता, युद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः |
 
अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।
पङ्क्तिः २४:
::चतुभ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
::..........................(सं.द.सं)
 
 
 
==आधाराः==
{{reflist}}
 
[[Categoryवर्गः: भारतीयतत्त्वशास्त्रम् |चार्वाकदर्शनम्]]
 
 
[[Category: भारतीयतत्त्वशास्त्रम् ]]
 
[[bn:চার্বাক]]
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्