"ब्राह्मणः" इत्यस्य संस्करणे भेदः

ब्राह्मणः ब्राह्मिन् (Brahmin) इति पदस्य संस्कृतभा... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
'''ब्राह्मणः'''
 
ब्राह्मिन् (Brahmin) इति पदस्य संस्कृतभाषायाः ब्राह्मणः इति पदस्य च मूलम् ’ब्रह्मन्’ इति। पदस्य अर्थः श्रेष्ठः आत्मा इति । ब्राह्मणं विप्रः = प्रेरेपितः अथवा द्विजः = द्विवारं जातः इत्यपि कथयन्ति । ब्राह्मणाः वैदिकं कर्म कुर्वन्ति । ब्राह्मणः इत्युक्ते न केवलम् अर्चकः किन्तु संस्कारजीवी अपि । वेदयुगात् उत्तरे काले ब्रह्मणाः विविधाः वृत्तयः अवलम्ब्य अपि जीवनं निर्वहन्ति स्म । तत्र प्रधानतया वैद्यः योधः लेखकः, कविः, भूस्वामी, मन्त्री च भवन्ति स्म । भारतस्य केषुचित् स्थानेषु ब्राह्मणाः राजानः अपि आसन् ।
पङ्क्तिः ७:
==ब्राह्मणानां सङ्ख्या==
:आन्ध्रप्रदेशराज्ये ब्राह्मणानां सङ्ख्या ६%
: तमिळुनाडुराज्ये ३%
:कर्णाटकराज्ये २% तः अपि न्यूना आसीत् ।
:केरलराज्ये नम्बूदरिब्राह्मणानां सङ्ख्या ०.७% आसीत् ।
जात्याधारिता जनगणनं पुनः यदा क्रि.श. २००१तमे वर्षे प्रवृत्तं तदा भारतदेशे ब्राह्मणजसङ्ख्या ४.१% पर्यन्तम् आगता । सारस्वतब्राह्मणाः देशे १%तः अपि न्यूनाः आसन् ।
==ब्राह्मणविभागाः==
पङ्क्तिः १९:
पञ्चगौडब्राह्मणाः –
उत्तरभारतस्य ब्राह्मणानां प्रभेदाः एवं सन्ति –
:१) सारस्वताः
:२) कान्यकुब्जाः
:३) मैथिलाः
:४)गौडाः
:५) उत्कलाः च इति ।
एते सर्वे काश्मीरः, नेपालः, उत्तराखण्डः, हिमाचलः, कुरुक्षेत्रं, रजपुतानम्, उत्तरप्रदेशः, अयोध्या, गान्धारः, पञ्जाबः, ईशान्यप्रान्ताः, पाकिस्थानं, सिन्धः, मध्यभारतं, तिर्हटः, बिहार, ओरिस्सा, बङ्गालः, अस्साम्, इत्यादिषु राज्येषु विकीर्णाः सन्ति ।
[[बिहारम्]]-बिहारराज्ये कान्यकुब्जब्राह्मणाः, भूमिहारब्राह्मणाः मैथिलब्राह्मणाः शक्द्वीपीब्राह्मणाः अधिकाः सन्ति । मोघल् साम्राज्यस्य पतनस्य अनन्तरम् अवधमण्डलस्य दक्षिणदिशि, बनारसः, गोरखपुरं, देवरिया, गाझीपुरं, बलिया इत्यदिषु प्रदेशेषु विद्यमानेषु नदीजलेन समृद्धक्षेत्रेषु भूमिहारब्राह्मणाः शालिधान्यानां कृषिकर्म कुर्वन्ति स्म । भूमिहारब्राह्मणाः सेनायाम् अपि कार्यं कुर्वन्ति स्म । १९तमे शतके भूमिहारजनाः भूस्वामिनः कृषकाः वा आसन् । क्रि.श. १८४२ तमे काले बङ्गालस्य सेनायां विद्यमानेषु ६७००० हैन्दवसैनिकेषु २८०००रजपुताः (राजपुत्राः) २५००० योधाः ब्राह्माणाः आसन् । १९तमशतकस्य अन्ते मङ्गलपाण्डे नायकत्वेन प्रचालिते स्वातन्त्रसङ्ग्रामे भूमिहारब्राह्मणाः प्रधानं पात्रम् अवहन् । काशीरज्यम् अपि भूमिहारब्राह्मणानां प्रदेशः आसीत् ।
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्