"मदनमोहन मालवीय" इत्यस्य संस्करणे भेदः

(लघु) मदनमोहन मालवीय मदनमोहनमालवीयः प्रति प्रविचलित।
(लघु) gen fixes using AWB
पङ्क्तिः ३:
<br>
मदनमोहनमालवीयः
एतस्य विश्वस्य भाग्यवशात् एकः महोन्नतः पुरुषः अस्मिन् देशे जातः । स एव '''मदनमोहनमालवीयः''' । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः देशोऽपि भाग्यशाली अभवत् ।
उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् आर्जितवान् आसीत् ।
१८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई, नानासाहेबः तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । आङ्ग्लसाम्राज्ये भारतदेशः कश्चन भागः जातः । एतेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।
"https://sa.wikipedia.org/wiki/मदनमोहन_मालवीय" इत्यस्माद् प्रतिप्राप्तम्