"मल्लिकार्जुनः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) gen fixes using AWB
पङ्क्तिः ९:
जननीगर्भसम्भूतं कष्टं नाप्नोति वै पुनः ॥" इति श्लोकः एव वदति अस्य क्षेत्रस्य माहात्म्यम् ।
 
पूर्वं श्रीशैलस्य उपत्यकायां [[चन्द्रगुप्तः|चन्द्रगुप्तनामकः]] कश्चन राजा आसीत् । तस्य पुत्री चन्द्रावती पितुः विषये असमाधानेन गृहं परित्यज्य अगच्छत् । श्रीशैलशिखरे [[गोपालकः|गोपालकैः]] सह [[फलम्|फल]][[मूलम्|मूलानि]] खादन्ती अवसत् । तस्याः [[धेनुः|धेनुः]] कदाचित् [[क्षीरम्|क्षीर]]दानम् एव अस्थगयत् । परीक्षणेन ज्ञातं यत् सा धेनुः स्वयमेव गत्वा शिवलिङ्गस्य उपरि क्षीरं स्रावयति इति । शिवः अपि स्वप्ने "तत्र शिवलिङ्गे अहम् अस्मि" इति ताम् असूचयत् । तदनन्तरं सा तत्र एकं शिवमन्दिरं निर्मितवती । प्रतिदिनं च शिवं [[मल्लिकापुष्पम्|मल्लिकापुष्पैः]] अपूजयत् । तस्मादेव कारणात् सः मल्लिकर्जुनः इति उच्यते । कदाचित् [[शिवः|शिवः]] [[व्याधः|व्याधरूपेण]] तत्र आगतः "चेञ्चु"वंशस्य काञ्चित् अवृणोत् इति । तदारभ्य "चेञ्चु"जनाः तस्य मन्दिरस्य रक्षकाः वयमेव इति चिन्तयन्ति ।
 
मल्लिकार्जुनमन्दिरस्य पश्चिमभागे [[भ्रमराम्बिका|भ्रमराम्बिकायाः]] मन्दिरम् अस्ति । अत्र [[महाशिवरात्रिः|महाशिवरात्रिः]] महता वैभवेन आचर्यते । एतत् क्षेत्रं [[बौद्धाः|बौद्धानां]] पवित्रं क्षेत्रम् । बौद्धतत्त्वज्ञानी [[आर्यनागार्जुनः|आर्यनागार्जुनः]] अस्मिन् क्षेत्रे तपः आचरत् इति । आर्यनागार्जुनः [[रसविद्या|रसविद्यायाम्]], [[आयुर्वेदः|आयुर्वेदे]], [[मन्त्रशास्त्रम्|मन्त्रशास्त्रे]], [[ज्योतिष्यम्|ज्योतिष्ये]] च निपुणः आसीत् । राज्ञे [[भोजदेवः|भोजदेवाय]] [[बौद्धधर्मः|बौद्धधर्मस्य]] दीक्षाम् अयच्छत् आर्यनागार्जुनः एव । अयम् आर्यनागार्जुनः [[नलन्दाविश्वविद्यालयः|नलन्दाविश्वविद्यालयस्य]] संस्थापकेषु अन्यतमः अपि ।
 
एतत् क्षेत्रं [[वीरशैवः|वीरशैवाणां]] पञ्चपीठेषु अन्यतमम् अस्ति । एतत् पण्डिताराध्यपीठम् इत्यपि उच्यते । अत्र वीरशैवजङ्गममठाः अपि सन्ति । मल्लिकार्जुनमन्दिरम् अत्यन्तं प्राचीनम् मन्दिरम् । एतत् मन्दिरं प्रति गन्तुं १४ शतके राजा वेमरेड्डी सोपानानि निरमापयत् । [[विजयनगरम्|विजयनगरस्य]] राजा [[कृष्णदेवरायः|कृष्णदेवरायः]] अपि श्रीशैलक्षेत्रम् आगतवान् आसीत् । सः अत्र स्वर्णशिखरसहितं सभामण्डपम् अपि निरमापयत् । तदनन्तरं १५० वर्षाणाम् अनन्तरं हिन्दुसाम्राज्यसंस्थापकः महाराजः [[शिवाजिः|शिवाजिः]] अपि आगतवान् आसीत् एतत् क्षेत्रम् । सोऽपि अत्र एकां धर्मशालां निरमापयत् ।
 
[[वर्गः : भारतस्य तीर्थक्षेत्राणि|मल्लिकार्जुनः]]
[[वर्गः : हिन्दुधर्मः|मल्लिकार्जुनः]]
 
[[वर्गः : भारतस्य तीर्थक्षेत्राणि]]
[[वर्गः : हिन्दुधर्मः]]
 
 
[[en:Jyotirlinga]]
[[bn:জ্যোতির্লিঙ্গ]]
[[de:Jyotirlinga]]
[[en:Jyotirlinga]]
[[es:Jyotirlinga]]
[[hi:द्वादश ज्योतिर्लिंग]]
"https://sa.wikipedia.org/wiki/मल्लिकार्जुनः" इत्यस्माद् प्रतिप्राप्तम्