"विश्वेश्वरः" इत्यस्य संस्करणे भेदः
Content deleted Content added
द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् विश्वेश्व... नवीन पृष्ठं निर्मीत अस्ती |
(लघु) gen fixes using AWB |
||
पङ्क्तिः १:
द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् '''विश्वेश्वरः''' सप्तमं ज्योतिर्लिङ्गम् अस्ति । विश्वेश्वरः अस्ति जगत्प्रसिद्धे [[
एतत् काशीनगरं वाराणसी, बनारस्, अविमुक्तकम्, आनन्दकाननम्, महाश्मशानम् इत्यपि वदन्ति । “कास्” इत्युक्ते तेजः, प्रकाशः इति अर्थः । ज्ञानदातॄणां विद्यावतां भूमिः इति कारणात् एतत् नगरं “काशी” इति उक्तम् । वारणा, असी इत्येतयोः द्वयोः नद्योः मध्ये एतत् नगरं स्थितम् अस्ति इति कारणात् “वाराणसी” इति उच्यते । अष्टभ्यः शतकेभ्यः पूर्वम् एतत् नगरं “बनारा” नामकस्य महाराजस्य राजधानी आसीत् । तस्मात् “बनारस्” इति नाम प्राप्तम् । “अवि” इत्युक्ते पापम् इत्यर्थः । देवगङ्गायाः शिवस्य च सान्निध्यं पापं नाशयति अथवा पापात् मोचयति इति कारणात् “अविमुक्तकम्” इति उच्यते । सत्-चित्-आनन्ददातुः शिवस्य एव आनन्ददायकं क्षेत्रम् इति कारणात् “आनन्दकाननम्” इति उच्यते । शिवः श्मशानवासी, शिवस्य वासस्थानं, पञ्चभूतानाम् एकीभवनस्थानं च इति कारणात् “महाश्मशानम्” इति उक्तम् अस्ति । एतदेकं शक्तिपीठम् अपि । सतीदेवी अत्र विशालाक्षीरूपेण स्थिता अस्ति ।
अत्र काश्यां विश्वनाथस्य पदतले प्रवहतः नदीजलस्य रोगनिवारकशक्तिः अस्ति इति । विश्वेश्वरमन्दिरस्य समीपे एव “ज्ञानवापि” नामकः कूपः अस्ति । गङ्गायाः आगमनात् पूर्वम् अस्य एव कूपस्य जलेन शिवस्य अर्चनं क्रियते स्म । तदर्थमेव “जटिल”नमकः ऋषिः अस्य कूपस्य खननं कारितवान् इति । विधर्मीयाणाम् आक्रमणावसरे सर्वदा विश्वनाथस्य मूललिङ्गम् अस्मिन् कूपे एव गोपयन्ति स्म । तस्मादेव कारणात् यद्यपि काश्याः उपरि नैकवारम् आक्रमणं सञ्जातं तथापि शिवलिङ्गम् अद्यापि अभग्नम् एव अस्ति । अत्र काश्यां विश्वेश्वररः एव चक्रवर्ती, हरेश्वरः मन्त्री, ब्रह्मेश्वरः कथावाचकः, भैरवेश्वरः नगरक्षकः, तारकेश्वरः धनाधिपतिः, तत्र विद्यमानानि सहस्रशः शिवलिङ्गानि एव प्रजापालकाः । अतः काश्यां यत्किमपि लिङ्गम् अर्चन्ति चेदपि तत् विश्वनाथस्य एव अर्चनं भवति । विश्वेश्वरमन्दिरस्य पार्श्वे एव अक्षयवटवृक्षः अस्ति । तं वृक्षं परितः प्राचिनमन्दिराणाम् अवशेषाः सन्ति । काश्यां विद्यमनां चक्रपुष्करिणीम् “आदितीर्थम्” इति वदन्ति । एतत् तीर्थं श्रीहरेः चक्रेण निर्मितम् इति । एतत् [[विष्णुः|विष्णोः]] तपोभूमिः । कदाचित् शिवः [[पर्वती|पार्वत्या]] सह विष्णोः मेलनार्थम् अत्र आगतः । तदा अत्रत्यां चक्रपुष्करिण्याः दर्शनेन सन्तुष्टः सः नृत्यम् अकरोत् । तदवसरे तस्य कर्णाभरणम् पुष्करिण्यां पतितम् । तदारभ्य तस्याः पुष्करिण्याः नाम् “मणिकर्णिका” इति जातम् । मणिकर्णिकाघट्टे विद्यमाने श्मशाने एव सत्यवान् [[
काश्याम् इदानीं विद्यमानं मन्दिरं महाराज्ञी [[
विश्वनाथमन्दिरं परितः अनेकाः देवालयाः सन्ति । प्रतिपदम् अपि देवालयाः सन्ति इति कारणात् एतत् नगरं “मन्दिराणां नगरम्” इत्येव उच्यते । [[दुर्गा|दुर्गायाः]], [[शनिः|शनेः]], [[गणेशः|गणेशस्य]] च मन्दिराणि तेषु प्रमुखाणि । काशीयत्रां समाप्य प्रतिगमनावसरे एतं गणेशमन्दिरं गत्वा गणेशं सूचयित्वा गन्तव्यम् इति नियमः अस्ति अत्र । तुलसीमानसमन्दिरम् अत्रत्यम् अन्यदेकं प्रसिद्धं मन्दिरम् । एतत् मन्दिरं पूर्णतया अमृतशिलया निर्मितम् अस्ति । अत्र [[तुलसीदासः|तुलसीदासस्य]] मूर्तिः अस्ति । भित्तिषु तुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । अस्मिन् मन्दिरे विशालं सभाङ्गणम् अस्ति । मुख्यवेदिकायाः एकस्मिन् पार्श्वे [[अन्नपूर्णा|अन्नपूर्णायाः]] अपरस्मिन् पार्श्वे च विश्वनाथस्य, लक्ष्मीनारायणयोः च, मध्ये [[सीता|सीतायाः]], [[रामः|रामस्य]], [[लक्ष्मणः|लक्ष्मणस्य]], [[आञ्जनेयः|आञ्जनेयस्य]] च प्रतिष्ठापनं कृतम् अस्ति । एताः सर्वाः अपि अमृतशिलया निर्मिताः मूर्तयः । अस्य मन्दिरस्य पृष्ठभागे तपोवनम् अस्ति । तत्र [[तुलसीरामायणम्|तुलसीरामायणस्य]] समग्रदर्शनं भवति ।
पङ्क्तिः ११:
काश्यां विद्यमानं बिर्लामन्दिरम् अपि भव्यं मन्दिरम् । एतत् शिवमन्दिरं दूरतः एव सर्वान् आकर्षति । अस्य मन्दिरस्य कल्पना योजना च पण्डितस्य [[मदनमोहनमालवीयः|मदनमोहनमालवीय]]स्य । निर्मातारः प्रसिद्धाः बिर्लाकुटुम्बस्य जनाः । व्यासकाशी, अन्नपूर्णेश्वरीमन्दिरं, काशीप्रासादः, गङ्गातीरस्य स्नानघट्टाः, असी-गङ्गयोः सङ्गमस्थानं, तत्रत्यं सूर्यमन्दिरं (लोलार्कम्), वारणा-गङ्गानद्योः मेलनस्थानं, तत्रत्यं केशवमन्दिरं, किरण-धूतपाप-गङ्गा-यमुना-सरस्वती-नदीनां मेलनस्थानं (पञ्चगङ्गाघट्टः), ब्रह्मणः अश्वमेधयागस्थानं (दशाश्वमेधघट्टः),१७९३तमे वर्षे निर्मितं क्वीन्स् कालेज, नागकुण्डतीर्थं, गोरखनाथमन्दिरं, वेदशाला, राममन्दिरं, १९३६तमे वर्षे निर्मितं भारतमातामन्दिरम् इत्यादीनि असंख्यानि दर्शनयोग्यानि स्थानानि सन्ति अत्र । काश्यां विश्वेश्वरमन्दिरम् इव प्रसिद्धम् अपरं स्थानं [[बनारस् हिन्दुविश्वविद्यालयः|बनारस्-हिन्दु-विश्वविद्यालयः]] । प्राचीनं गुरुकुलम् इव निर्मितः अस्ति अयं विश्वविद्यालयः । ११०० एकरे यावत् व्याप्तः अस्ति अयम् ।
काश्याः इतिहासः अपि भव्यः दिव्यः च । दिवोदासः, प्रतर्दनः, अलर्कः इत्यादयः प्रसुद्धाः पण्डववंशजाः राजानः काश्याः शासनम् अकुर्वन् । [[दशरथः|दशरथस्य]] [[अश्वमेधयागः|अश्वमेधयागं]] प्रति काश्याः राज्ञः अपि आह्वानम् आसीत् इति [[
काश्याः उपरि मतान्धैः म्लेच्छैः नैकवारम् आक्रमणं कृतम् । क्रि.श. १०३३तमे वर्षे [[
[[वर्गः:भारतस्य तीर्थक्षेत्राणि|विश्वेश्वरः]]
[[वर्गः
[[bn:জ্যোতির্লিঙ্গ]]
|