पङ्क्तिः ८०:
2. अपि च किं अकारान्त शब्दस्य रूपं '''स्त्रीलिङ्गे''' चालयितुं शक्यम्? एषोऽपि महान् उपयोज्यः विषयः, यस्माद् यदा कदा संस्कृतेतराणि नामानि स्त्रीवाचकान्यपि भूत्वा अकारान्तानि भवन्ति। उदाहरणार्थं स्वराज इति नाम्नः (महोदयापदाद् विना) प्रयोगं कृत्वा विज्ञाप्यताम्। <br>
एताः तु मे पुरातनाः जिज्ञासाः, कृपया विचिन्त्य उत्तरं ददातु इति मे सादरं निवेदनम्। - [[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०९:१३, २२ सप्तम्बर् २०११ (UTC)
नमस्ते महोदय,
सन्देहानां निमित्तं धन्यवादाः। यथामति उत्तरं लिखामि। मम चिन्तने दोषः भवितुम् अर्हति। एषः मम अभिप्रायः संस्कृतेतरशब्दानां विषये केवलम्।
’गान्धि’ इति(सदृशं वा) संस्कृतेतरभारतीयभाषासु यत्पदं प्रयुज्यते तत् संस्कृतपदं तु न। तस्य इकारान्त’हरि’शब्दवत् प्रयोगःउचितः उत इन्नन्त’अधिकारी’शब्दवत् इति चिन्तनस्य विषयः। अत्र गान्धि शब्दः कुलनाम सूचयति न तु व्यक्तिम् इत्यपि स्मरणीयम्। हरिशब्दवत् स्वीकृतं चेत् मतिशब्दस्य रूपाणाम् अपि साम्यम् अस्ति। अपेक्षानुसारं पुंवत् वा स्त्रीवत् वा चिन्तयन्तु इति उद्देशेन, अपि च ह्रस्वस्य उच्चारणमेव श्रूयते इत्यतः सारल्यदृष्ट्या परिवर्तनं कृतम्।
एतावता बहवः ह्रस्वस्य प्रयोगं (शिवाजि:, सम्भाजिः इत्यादिषु) कृतवन्तः इत्यतः सम्पर्कदाने सौकर्यं भवतु इति उद्देशेन परिवर्तितम्।
”’इन्नन्तवत् कश्चित् उपयोगं करोति चेत् न कोपि आक्षेपः”’।
प्रथम-द्वितीयसन्देहयोः विषये अहं चिन्तयामि यत्र लिङ्गं निर्दिष्टम् अस्ति तस्य परिवर्तनं कर्तुं न शक्यम् इति।
सुष्मा स्वराजसदृशशब्दविषये वयं सुवर्णमध्यममार्गम् अनुसरन्तः स्म, स्वराजमहोदया इति। ”’स्वराजा”’ इति पदप्रयोगः न उचितः इति कस्यचित् वैय्याकरणस्य मुखात् श्रुतम् आसीत् । नाहम् अधिकं जाने। क्षम्यताम्। [[User:Suchetaav|Suchetaav]] ([[User talk:Suchetaav|चर्चा]]) १०:२९, २२ सप्तम्बर् २०११ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Suchetaav" इत्यस्माद् प्रतिप्राप्तम्