"विश्वेश्वरः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः ४:
 
अत्र काश्यां विश्वनाथस्य पदतले प्रवहतः नदीजलस्य रोगनिवारकशक्तिः अस्ति इति । विश्वेश्वरमन्दिरस्य समीपे एव “ज्ञानवापि” नामकः कूपः अस्ति । गङ्गायाः आगमनात् पूर्वम् अस्य एव कूपस्य जलेन शिवस्य अर्चनं क्रियते स्म । तदर्थमेव “जटिल”नमकः ऋषिः अस्य कूपस्य खननं कारितवान् इति । विधर्मीयाणाम् आक्रमणावसरे सर्वदा विश्वनाथस्य मूललिङ्गम् अस्मिन् कूपे एव गोपयन्ति स्म । तस्मादेव कारणात् यद्यपि काश्याः उपरि नैकवारम् आक्रमणं सञ्जातं तथापि शिवलिङ्गम् अद्यापि अभग्नम् एव अस्ति । अत्र काश्यां विश्वेश्वररः एव चक्रवर्ती, हरेश्वरः मन्त्री, ब्रह्मेश्वरः कथावाचकः, भैरवेश्वरः नगरक्षकः, तारकेश्वरः धनाधिपतिः, तत्र विद्यमानानि सहस्रशः शिवलिङ्गानि एव प्रजापालकाः । अतः काश्यां यत्किमपि लिङ्गम् अर्चन्ति चेदपि तत् विश्वनाथस्य एव अर्चनं भवति । विश्वेश्वरमन्दिरस्य पार्श्वे एव अक्षयवटवृक्षः अस्ति । तं वृक्षं परितः प्राचिनमन्दिराणाम् अवशेषाः सन्ति । काश्यां विद्यमनां चक्रपुष्करिणीम् “आदितीर्थम्” इति वदन्ति । एतत् तीर्थं श्रीहरेः चक्रेण निर्मितम् इति । एतत् [[विष्णुः|विष्णोः]] तपोभूमिः । कदाचित् शिवः [[पर्वती|पार्वत्या]] सह विष्णोः मेलनार्थम् अत्र आगतः । तदा अत्रत्यां चक्रपुष्करिण्याः दर्शनेन सन्तुष्टः सः नृत्यम् अकरोत् । तदवसरे तस्य कर्णाभरणम् पुष्करिण्यां पतितम् । तदारभ्य तस्याः पुष्करिण्याः नाम् “मणिकर्णिका” इति जातम् । मणिकर्णिकाघट्टे विद्यमाने श्मशाने एव सत्यवान् [[हरिश्चन्द्रः]] श्मशानवासी आसीत् ।
 
[[चित्रम्:Kashi.jpg|thumb|300px|left|उत्तरप्रदेशस्य काश्यां विद्यमानं विश्वेश्वरमन्दिरम्]]
काश्याम् इदानीं विद्यमानं मन्दिरं महाराज्ञी [[अहल्याबाई होळ्कर]] १७६६तमे वर्षे निरमापयत् । विश्वेश्वरः तस्याः स्वप्ने आगत्य मन्दिरनिर्माणं कारयितुम् अवदत् इति । पञ्जाबकेसरी इति प्रसिद्धः महाराजः रणजित् सिङ्गः अस्य मन्दिरस्य स्वर्णगोपुरं निर्मितवान् । माकिं २२५ के.जि.मितेन सुवर्णेन १८ मीटर् उन्नतं लोहपत्रं निर्माय गोपुरस्य आच्छादनं कृतम् । प्राचीनमन्दिरं प्रति मुखं कृत्वा स्थितः नन्दी ७ पादमितः उन्नतः अस्ति । नेपालस्य नरेशः तं विश्वेश्वराय अर्पितवान् इति ।
 
विश्वनाथमन्दिरं परितः अनेकाः देवालयाः सन्ति । प्रतिपदम् अपि देवालयाः सन्ति इति कारणात् एतत् नगरं “मन्दिराणां नगरम्” इत्येव उच्यते । [[दुर्गा|दुर्गायाः]], [[शनिः|शनेः]], [[गणेशः|गणेशस्य]] च मन्दिराणि तेषु प्रमुखाणि । काशीयत्रां समाप्य प्रतिगमनावसरे एतं गणेशमन्दिरं गत्वा गणेशं सूचयित्वा गन्तव्यम् इति नियमः अस्ति अत्र । तुलसीमानसमन्दिरम् अत्रत्यम् अन्यदेकं प्रसिद्धं मन्दिरम् । एतत् मन्दिरं पूर्णतया अमृतशिलया निर्मितम् अस्ति । अत्र [[तुलसीदासः|तुलसीदासस्य]] मूर्तिः अस्ति । भित्तिषु तुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । अस्मिन् मन्दिरे विशालं सभाङ्गणम् अस्ति । मुख्यवेदिकायाः एकस्मिन् पार्श्वे [[अन्नपूर्णा|अन्नपूर्णायाः]] अपरस्मिन् पार्श्वे च विश्वनाथस्य, लक्ष्मीनारायणयोः च, मध्ये [[सीता|सीतायाः]], [[रामः|रामस्य]], [[लक्ष्मणः|लक्ष्मणस्य]], [[आञ्जनेयःहनुमान्|आञ्जनेयस्य]] च प्रतिष्ठापनं कृतम् अस्ति । एताः सर्वाः अपि अमृतशिलया निर्मिताः मूर्तयः । अस्य मन्दिरस्य पृष्ठभागे तपोवनम् अस्ति । तत्र [[तुलसीरामायणम्|तुलसीरामायणस्य]] समग्रदर्शनं भवति ।
काश्यां विद्यमानं बिर्लामन्दिरम् अपि भव्यं मन्दिरम् । एतत् शिवमन्दिरं दूरतः एव सर्वान् आकर्षति । अस्य मन्दिरस्य कल्पना योजना च पण्डितस्य [[मदनमोहनमालवीयः|मदनमोहनमालवीय]]स्य । निर्मातारः प्रसिद्धाः बिर्लाकुटुम्बस्य जनाः । व्यासकाशी, अन्नपूर्णेश्वरीमन्दिरं, काशीप्रासादः, गङ्गातीरस्य स्नानघट्टाः, असी-गङ्गयोः सङ्गमस्थानं, तत्रत्यं सूर्यमन्दिरं (लोलार्कम्), वारणा-गङ्गानद्योः मेलनस्थानं, तत्रत्यं केशवमन्दिरं, किरण-धूतपाप-गङ्गा-यमुना-सरस्वती-नदीनां मेलनस्थानं (पञ्चगङ्गाघट्टः), ब्रह्मणः अश्वमेधयागस्थानं (दशाश्वमेधघट्टः),१७९३तमे वर्षे निर्मितं क्वीन्स् कालेज, नागकुण्डतीर्थं, गोरखनाथमन्दिरं, वेदशाला, राममन्दिरं, १९३६तमे वर्षे निर्मितं भारतमातामन्दिरम् इत्यादीनि असंख्यानि दर्शनयोग्यानि स्थानानि सन्ति अत्र । काश्यां विश्वेश्वरमन्दिरम् इव प्रसिद्धम् अपरं स्थानं [[बनारस् हिन्दुविश्वविद्यालयः|बनारस्-हिन्दु-विश्वविद्यालयः]] । प्राचीनं गुरुकुलम् इव निर्मितः अस्ति अयं विश्वविद्यालयः । ११०० एकरे यावत् व्याप्तः अस्ति अयम् ।
"https://sa.wikipedia.org/wiki/विश्वेश्वरः" इत्यस्माद् प्रतिप्राप्तम्