"केदारनाथः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः २:
 
अयं पर्वतः २३,००० पादमितम् उन्नतः अस्ति । मन्दिरं ११,७८० पादमितम् उन्नते स्थाने अस्ति । केदारं प्रति गमनमार्गे अनेकानि रम्यदृश्यानि सन्ति । मार्गस्य उभयोः पार्श्वयोः भीमाकारकः हिमराशिः महागजः इव पतितः भवति । नदी [[मन्दाकिनी]] हिमस्य अधः एव शतद्विश्तपादं यावत् प्रवह्य उपरि आगच्छति । गिरिभ्यः अनेकाः झर्यः प्रवहन्ति । काश्चन झर्यः मन्दाकिन्याम् अन्तर्भवन्ति । काश्चन भीमाकारिकाः झर्यः शताधिकपादं यावत् एकधा एव कूर्दन्ति । जलस्य प्रमाणं वेगं च पश्यामः चेत् [[शिवः|शिवस्य]] ताण्डवनृत्यस्य स्मरणं भवति ।
 
[[चित्रम्:Kedarnath Temple.jpg|thumb|300px|left|हिमालये विद्यमानं केदारेश्वरमन्दिरम्]]
 
हिमाच्छादितशिखराणां मध्ये विराजमानं केदारेश्वरमन्दिरं दृष्टवत्सु भक्तेषु विद्युत्सञ्चारः भवति । तावत्पर्यन्तम् आगमने जातः श्रमः विस्मर्यते एव । अस्य केदारेश्वरमन्दिरस्य गर्भगृहे महत् शिवलिङ्गम् अस्ति । ४ पादमिता रूक्षा महाशिला एव अत्रत्यं लिङ्गम् । अर्धगोलाकारकस्य अस्य लिङ्गस्य वैशाल्यम् एव ६ पादमितम् । अत्र शिल्पिभिः किमपि कार्यं न कृतम् । अत्र भक्ताः भगवता सह हृदयभाषया सम्भाषन्ते । [[गङ्गा|गङ्गायाः]] [[यमुना|यमुनायाः]] च उदकम् आनीय शिवलिङ्गस्य अभिषेकं कारयन्ति । शिवलिङ्गम् आलिङ्ग्य सन्तोषम् अनुभवन्ति, अश्रूणि स्रावयन्ति, नवनीतं लेपयन्ति च । अन्तः अखण्डज्योतिः ज्वलति । तत्र श्री[[कृष्णः|कृषणस्य]] शिवस्य [[पार्वती|पार्वत्याः]] च विग्रहाः सन्ति । मन्दिरस्य बहिर्भागे ईशान्यकुण्डम्, अमृतकुण्डम्, हंसकुण्डं, रेतसकुण्डम् इत्याख्यानि तीर्थानि सन्ति ।
"https://sa.wikipedia.org/wiki/केदारनाथः" इत्यस्माद् प्रतिप्राप्तम्