"लक्ष्यसाधनक्रीडा" इत्यस्य संस्करणे भेदः

==लक्ष्यसाधनक्रीडा (निशानेबाजी)== धनुर्धरा आखेटे... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
==लक्ष्यसाधनक्रीडा (निशानेबाजी)==
धनुर्धरा आखेटेषु युद्धेषु च पूर्वं लक्ष्यं सन्धाय हिंस्त्रं हिंस्यं पशुं तथा विरोधिनं घ्नन्ति स्म । ततः परं भुशुण्डयाः (बन्दूक) लघुभुशुण्डया (पिस्तौल)श्च निर्मित्या तद्द्वारा गुटिकाप्रहाराय सन्धानानि क्रियन्ते स्म । एवमेव गोफणिकायां प्रस्तरं निधाय लक्ष्यपूवकं प्रस्तरक्षेपणामपि विधीयते स्म । एता एव क्रियाः साम्प्रतं क्रीडादृष्ट्या सन्धायिभिः प्रदर्श्यन्ते पुरस्काराश्च प्राप्यन्ते । सन्धेयवस्तूनाम् आकाराः सन्धानस्थलानां दूरताः साधनानां वैविध्यं चेति नियमानुसारं प्रयुञ्जानाः क्रीडकाः प्रशिक्षणं प्राप्नुवन्ति तथा क्रीडोत्सवेषु साफल्यं लभन्ते ।
 
[[वर्गः: क्रीडाः]]
 
==आधारः==
अभिनवक्रीडातरंगिणी
"https://sa.wikipedia.org/wiki/लक्ष्यसाधनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्