सम्पादनसारांशरहितः
No edit summary |
No edit summary |
||
होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे [[भारतम्|भारते]] सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्री[[कृष्णः|कृष्णस्य]] दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति [[पुराणम्|पुराणेषु]] ।
[[चित्रम्:A Holi Festival - Krishna Radha and Gopis.jpg|thumb|150px|right|भगवान् श्रीकृष्णः राधा तथा अन्याभिः गोपिकाभिः सह होलीक्रीडां क्रीडति]]
होलिकानामिका [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपो:]] सोदरी । महामायाविनी सा [[अग्निः|अग्निसिद्धिम्]] अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परम[[विष्णुः|विष्णुभक्तं]] स्वपुत्रं [[प्रह्लादः|प्रह्लादं]] मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं पाप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।
एतद्दिने कामदेवम् आवह्य षोडशोपचारै: पूजयन्ति च । अस्मिन् दिने होलिका अथवा [[पोलिका]] इति विशिष्टं भक्ष्यं समर्पयन्ति देवेभ्य: । तद्दिने देवपितृभ्य: तर्पणं प्रदाय दोषशान्त्यर्थं होलीधूलिं नमस्कुर्वन्ति । गृहस्य अङ्गणं शुद्धीकृत्य अक्षतारङ्गवल्लीभि: अलङ्कृत्य मध्यभागे श्वेतवस्त्रयुक्तं पीठं स्थापयन्ति । तत्पुरत: श्वेत[[चन्दनम्|चन्दन]]-रक्तवस्त्र-पल्लवै: युक्तं कलशं प्रतिष्ठापयन्ति । तदुपरि [[रती]]देवीसहितं कामदेवं प्रतिष्ठाप्य अर्घ्य-पाद्य-गन्ध-दीप-धूप-पुष्प-नैवेद्यानि समर्पयन्ति । महिला: रक्तवर्णस्य वस्त्रम् आभूषणानि च धृत्वा चन्दनवृक्षं पूजयन्ति । तेन आयुरारोग्यवृद्धि: भवति इति । पञ्चमीत: आरभ्य दश दिनानि विनोदार्थं चोरितानि काष्ठानि सङ्गृह्य होलिकादहनं कुर्वन्ति । पूर्णिमादिने अग्निप्रदीपनं कुर्वन्ति । ग्रामात् बहि: मध्ये वा होलिकादहनम् आचरन्ति । चण्डालगृहात् वा सूतिकागृहात् वा बालानां द्वारा अग्निम् आनाययन्ति होलिकादहनार्थम् । राजा एव स्वयं स्नानादिना शुद्ध: सन् स्वस्तिवाचनं कारयित्वा तूर्यनादसहित: आगत्य दानधर्मादिकम् आचर्य अग्निज्वालनं कुर्यात् । अग्नये [[घृतम्|घृतं]] [[दुग्धम्|दुग्धं]] च समर्पयन्ति । अनन्तरं [[जलम्|जलेन]] अग्निकेन्द्रं शान्तं क्रुत्वा एकान्तस्थाने स्थापयन्ति । [[नारिकेलम्|नारिकेलस्य]] [[दाडिमफलम्|दाडिमस्य]] [[बीजपूरफलम्|बीजपूरस्य]] च दानं कृत्वा रात्रिं गीतवाद्यनृत्यै: यापयन्ति । त्रिवारम् अग्ने: प्रदक्षिणं कृत्वा गृहमानयन्ति तम् अग्निम् । अपरस्मिन् दिने प्रात:काले तेन अग्निना एव जलम् उष्णीकृत्य स्नानं कुर्वन्ति ।
[[चित्रम्:Holi celebrations, Pushkar, Rajasthan.jpg|thumb|200px|left|राजस्थाने पुष्करनगरे होलीक्रीडा]]
:'''”दशस्यु: शोभमानास्तु काष्ठस्तेयं विधीयते ।'''
[[वर्गः:भारतीयसंस्कृतिः]]
[[ar:مهرجان الألوان]]
[[bn:দোলযাত্রা]]
[[bh:होली]]
[[ca:Holi]]
[[
[[
[[fr:Holî]]
[[
[[
[[hr:Holi]]
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[
[[ru:Холи]]
[[
[[
[[fi:Holi]]
[[
[[
[[te:హోళీ]]
[[
[[
[[
[[
|