"गणेशचतुर्थी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
प्रायः समग्रे [[भारतम्|भारतदेशे]] आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । [[शिवः|शिवगणानाम्]] अधिपतिः, विघ्ननिवारकः , आदिपूज्यः च । '''“आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम्”''' इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । “पञ्चायतन”देवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । '''“त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं [[ब्रह्मा]] त्वं [[विष्णुः|विष्णुस्त्वं]] [[रुद्रः|रुद्र]]स्त्वम्न्द्रस्त्वमग्निस्त्वं [[वायुः|वायुस्त्वं]] [[सूर्यः|सूर्यस्त्वं]] [[चन्द्रः|चन्द्रमा]]स्त्वं ब्रह्म्भूर्भुवस्सुवरोम्”''' इत्याशयं प्रकाशयति [[गाणपत्यथर्वशीर्षमहोपनिषत्]] । [[पुराणम्|पुराणे]][[इतिहासः|तिहासा]][[आगमाः|गमादिषु]] तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । '''“कलौ दुर्गाविनायकौ”''' इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु [[बर्मा]], [[मलेश्या]], [[इण्डोनेष्या]], [[चीना]], [[सुमात्रा]], [[जावा]], [[जपान्]] इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।
 
 
[[चित्रम्:Ganesha on mouse.jpg|thumb|200px|right|कर्णाटकस्य तलकाडुनगरे वैद्येश्वरदेवालये विद्यमानं गणेशशिल्पम्]]
 
[[महाभारतम्|महाभारतं]] [[व्यासः|व्यासविरचितं]] गणेशलिखितम् इति प्रसिद्धम् । [[याज्ञवल्क्यस्मृतिः|याज्ञवल्क्यस्मृतौ]], [[बोधायनगृह्यसूत्रम्|बोधायनगृह्यसूत्रे]], महाभारतस्य वनपर्व-अनुशासनपर्वयोः, [[गोभिलस्मृतिः|गोभिलस्मृतौ]], [[बाणभट्टः|बाणभट्टस्य]] [[हर्षचरितम्|हर्षचरिते]], [[वामनपुराणम्|वामनपुराणे]], [[मत्स्यपुराणम्|मत्स्यपुराणे]], [[भविष्यपुराणम्|भविष्यपुराणे]], [[अग्निपुराणम्|अग्निपुराणे]], जैनानाम् [[आचारदिनकरः|“आचारदिनकर”]]ग्रन्थे च गणेशस्य, तस्य पूजायाः, स्वरूपस्य वा उल्लेखः अस्ति । गणपतिमूर्तिषु अपि २१ वा ३२ विधाः सन्ति इति आगमाः वदन्ति । बालगणपतिः, तरुणगणपतिः, भक्तगणपतिः, वीरगणपतिः, शक्तिगणपतिः, द्विजगणपतिः, सिद्धगणपतिः, उच्छिष्टगणपतिः, विघ्नगणपतिः, क्षिप्रगणपतिः, हेरम्भगणपतिः, लक्ष्मीगणपतिः, महागणपतिः, विजयगणपतिः, नृत्यगणपतिः, ऊर्ध्वगणपतिः, एकाक्षरगणपतिः, वरगणपतिः, त्र्यक्षरगणपतिः, क्षिप्रप्रसादगणपतिः, हरिद्रागणपतिः, एकदन्तगणपतिः, सृष्टिगणपतिः, उद्दण्डगणपतिः, ऋणमोचकगणपतिः, ढुण्डिगणपतिः, द्विमुखगणपतिः, त्रिमुखगणपतिः, सिंहगणपतिः, योगगणपतिः, दुर्गागणपतिः, सङ्कष्टहरगणपतिः इति ।
Line ३३ ⟶ ३६:
उद्वासनानन्तरं तं मृत्तिकाविग्रहं घण्टानादादिमङ्गलवाद्यसहितं यथाशक्तिवैभवेन वीथीषु शोभायात्रायां नीत्वा [[कूपः|कूप]]-पुष्करिणी-सरोवर-नदीषु कुत्रचित् विसर्जयन्ति । विसर्जनात् पूर्वं जलाशयतीरे अपि एकवारं संक्षेपपूजां कृत्वा एव विसर्जनपद्धति: अपि अस्ति । विसर्जनम् अपि कुत्रचित् पर्वदिने एव कुत्रचित् दिनत्रयानन्तरं वा सप्ताहनन्तरं वा कुर्वन्ति । मङ्गलवासरे गणेशस्य विसर्जनं न कुर्वन्ति ।
 
 
गणेश: [[आकाशः|आकाशस्य]] अभिमानिदेवता । अस्य शुण्डा ओङ्कारस्य प्रतीका । बृहत् [[उअदरम्|उदरं]] ब्रह्माण्डस्य सङ्केतम् । उदरे बद्ध: [[सर्पः|सर्प:]] ब्रह्माण्डं वहन् आदिशेष: । विशालौ [[कर्णः|कर्णौ]] ज्ञानद्योतकौ । हस्ते विद्यमानपाश: रागम् अङ्कुश: क्रोधं च प्रतिपादयत: । एकदन्त: अद्वैतप्रतीक: च ।
 
"https://sa.wikipedia.org/wiki/गणेशचतुर्थी" इत्यस्माद् प्रतिप्राप्तम्