"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
श्री[[कृष्णः|कृष्णाष्टमी]] गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः [[भारतम्|भारतस्य]] सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महा[[विष्णुः|विष्णोः]] नवमः अवतारः । सः अवतारः चेदपि साक्षात् भगवान् एव । '''“कृष्णस्तु भगवान् स्वयम्”''' '''“दशाकृतिकृते कृष्णाय तुभ्यं नमः” “ईश्वरः परमः कृष्णः”''' इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
 
[[चित्रम्:Baby Krishna Sleeping Beauty.jpg|thumb|200px|right|शयानः बालकृष्णः]]
 
सः एव आदिपुरुषः, परब्रह्मा, पुरुषोत्तमः । [[स्मृतिः|स्मृतिषु]], [[पुराणम्|पुराणेषु]], [[इतिहासः|इतिहासेषु]], [[काव्यम्|काव्येषु]], प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः '''“तं देवतानां परमं च दैवतम्”''' इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-[[पशुः|पशु]]-[[पक्षी|पक्षि]]-[[वृक्षः|वृक्ष]]-[[वनस्पतयः|वनस्पत्यादीन्]] अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, [[महाभारतम्|महाभारतस्य]] सूत्रधारः, महावीरः, [[धर्मः|धर्मप्रभुः]], धर्मनिरतानां [[पाण्डवाः|पाण्डवानां]] बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, [[भगवद्गीता|गीतोपदेशं]] कृतवान् योगाचार्यः श्रीकृष्णः ।
Line १८ ⟶ २०:
:'''“आजन्ममरणं यावत् यन्मया दुष्कृतं कृतम् ।'''
:'''तत्प्रणाशाय गोविन्द प्रसीद पुरुषोत्तम ।“'''
 
[[चित्रम्:Govindashtami.jpg|thumb|150px|right|दधिकुम्भभञ्जनस्पर्धायाः दृश्यम्]]
 
 
 
:इति वदन्तः अर्घ्यं समर्पयन्ति । रात्रिपूर्णं जागरणं कृत्वा अनन्तरदिने प्रातः नित्यकर्मणाम् अनन्तरं श्रीकृष्णस्य उत्तराराधनं कृत्वा [[ब्राह्मणः|ब्राह्मणभोजनं]] कारयित्वा स्वर्ण-गो-वस्त्रादीनां दानं कुर्वन्ति । कुत्रचित् [[देवकी|देवक्याः]] प्रसवगृहम् प्रकल्प्य तत्र पूर्णकुम्भम्, [[आम्रफलम्|आम्रपर्णानि]], पुष्पाणि, धूपदीपादिकं संस्थापयन्ति । प्रकोष्ठस्य भित्तिषु देवगन्धर्वाणां, वसुदेवदेवकी-नन्दयशोदादीनां, गोपिकानां, [[कंसः|कंसस्य]] रक्षकभटादीनां, [[यमुना|यमुनानद्याः]], [[कालियः|कालियस्य]] अन्येषां नागानां, गोकुलस्य इतरासां घटनानां च चित्राणि लिखन्ति । मध्याह्ने [[तिलः|तिलजलेन]] वा महातीर्थेन वा स्नान्ति । मध्यरात्रसमये सङ्कल्पपूर्वकं मन्त्रसहितं शय्यायां शयितौ देवकीकृष्णौ कल्पयन्ति । अनन्तरं स्वर्णस्य वा रजतस्य वा विग्रहे प्राणप्रतिष्ठां कृत्वा भगवतः जातकर्म नामकरणादिकं कुर्वन्ति । चन्द्रोदयावसरे रोहिणीसहिताय चन्द्राय अर्घ्यं समर्पयन्ति । रात्रिपूर्णं जगरणं कृत्वा अपरस्मिन् दिने प्रातः श्रीकृष्णस्य उत्तराराधनं कृत्वा दानादीन् विधीन् निर्वहन्ति ।
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्