"रामनवमी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
श्री[[रामः]] [[विष्णुः|विष्णोः]] सप्तमः अवतारः । '''"विष्णोरर्धं महाभागम्”''' इत्येव उल्लेखः दृश्यते । [[रावणः]] '''“देवेभ्यः मरणं नास्ति”''' इति वरं प्राप्तवान् आसीत् । तस्य संहारार्थं महाविष्णुः एव मनुष्यरूपेण जन्म प्राप्नोत् । सः एव श्रीरामचन्द्रः । चैत्रमासस्य शुक्लपक्षस्य नवम्यां तिथौ श्रीरामस्य जन्म अभवत् । तद्दिनमेव “श्रीरामनवमी” इति आचर्यते ।
 
[[चित्रम्:Birth of rama.jpg|thumb|200px|right|श्रीरामस्य जननम्]]
 
 
:'''“चैत्रे नवम्यां प्राक् पक्षे दिवा पुण्ये पुनर्वसौ ।'''
Line १२ ⟶ १५:
:'''“अकृत्वा रामनवमीव्रतं सर्वोत्तमोत्तमम् ।'''
:'''व्रतान्यन्यानि कुरुते न तेषां फलभाग्भवेत् ॥“''' (हेमाद्रि-अगस्त्यसंहिता पु-१८०दशनिर्णयः)
 
[[चित्रम्:Rama, Sita and Lakshmana.jpg|thumb|200px|right|रामनवम्यां पूज्यमानाः रामः, सीता, लक्ष्मणः, हनुमान् च]]
 
चैत्रशुक्लप्रतिपत्तः श्रीरामपूजाम् आरभ्य रामनवमीदिने मङ्गलकरणक्रमः अस्ति कुत्रचित् । तत् '''“वसन्तनवरात्र-रामनवम्याराधनम्”''' इति उच्यते । कुत्रचित् रामनवम्याः पूर्वतनम् अनन्तरदिनं च योजयित्वा दिनत्रयं यावत् आचरन्ति । यदि तथा न शक्यते तर्हि रामनवमीदिने एकं दिनं वा आचरेयुः एव । तद्दिने अङ्कुरार्पणं कृत्वा अनन्तरम् उत्सवाचरणं करणीयम् । व्रतम् आचर्यमाणाः चैत्रशुद्ध-अष्टम्यां प्रातः जितेन्द्रियः सन् नदी-कासार-सरोवर-कूपेषु कुत्रचित् स्नात्वा सन्ध्यावन्दनम् अग्निकार्यं च आचरन्ति । वेदशास्त्रविशारदं रामपूजापरायणं ब्राह्मणोत्तमम् आहूय भोजनं कारयन्ति । सायङ्कालपर्यन्तं रामध्यानं रामकथाश्रवणं कुर्वन्ति । रात्रौ द्वौ अपि उपवासं कृत्त्वा भूमौ शयनं कुरुतः । अपरस्मिन् दिने प्रातः स्नानसन्ध्यावन्दनं समाप्य गृहस्य उत्तरदिशि मण्डपनिर्माणं कुर्वन्ति । पुष्पपल्लवैः मण्डपम् अलङ्कृत्य सीतासमेतस्य श्रीरामस्य प्रतिष्ठापनं कुर्वन्ति । अनन्तरं पञ्चामृताभिषेकं कृत्वा पुण्याहवाचनं, पुरुषसूक्त-मूलमन्त्रसहितं षोडशोपचारपूजां कुर्वन्ति । अर्घ्यपाद्यादिकं समर्प्य घृतसूपव्यञ्जनादिनैवेद्यम् अर्पयन्ति । अलङ्कार-नृत्य-गीत-वाद्यैः सह शोभायात्रां कारयन्ति । रात्रौ जागरणं कुर्वन्ति । दशम्यां प्रातः आज्यपायसादिना १०८ हवनं कुर्वन्ति । तं विग्रहं पूजान्ते तस्मै ब्राह्मणाय दानरूपेण यच्छन्ति । तद्दिने सर्वेषु गृहेषु श्रीरमस्य पूजा भवति । रामायणस्य पारायणं, भजनानां गायनं, पानक-कोषम्बरीणां वितरणं सर्वत्र भवति । राममन्दिरेषु तद्दिने विशेषपूजाः , सङ्गीत-हरिकथा –उपन्यास-रथोत्सवादयः कार्यक्रमाः आयोज्यन्ते ।
"https://sa.wikipedia.org/wiki/रामनवमी" इत्यस्माद् प्रतिप्राप्तम्