"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः]] '''“उत्सवप्रियाः खलु मनुष्याः”''' (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु '''’पर्व’''' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।
 
[[चित्रम्:Deepavali-haNate.jpg|thumb|150px|right|प्रज्वालितौ मङ्गलसूचकौ तैलदीपौ]]
:'''असतो मा सद्गमय ।
Line १५ ⟶ १७:
 
हिन्दुधर्मः प्रत्येकमपि जनं कर्मत्रयं बोधयति । '''नित्यकर्म, नैमित्तिककर्म, काम्यकर्म''' चेति । नित्यकर्म नाम प्रतिदिनं करणीयं कर्म – उदाहरणार्थं पूजा, प्रार्थना, ध्यानं, सन्ध्यावन्दनम् इत्यादीनि । नैमित्तिककर्म नाम निमित्ते सति करणीयं कर्म – उदाहरणार्थं पर्व, जयन्त्युत्सवादयः च । काम्यकर्म नाम मनसः इच्छापूर्त्यर्थं करणीयं कर्म – उदाहरणार्थं व्रतं, यज्ञयागादिकं च । प्रत्येकम् अपि जनं निरन्तरं सुसंस्कृतं कर्तुं ये वैज्ञानिकाः विचाराः मनःशास्त्रस्य अनुगुणं सन्ति तेषाम् एव आधारेण एते कर्मविचाराः विधिनियमाः अपि रचिताः सन्ति । '''कारणं विना मधुरं न भुञ्जीत''' इत्येतं धर्मसूक्ष्मविषयं [[वाल्मीकिः|वाल्मीकि]]मुनिः [[रामायणम्|रामायणस्य]] [[अयोध्याकाण्डम्|अयोध्याकाण्डे]] उल्लिखति । [[महाभारतम्|महाभारतस्य]] [[विधुरनीतिः]] अपि एतत् एव वदति । यथा –
 
[[चित्रम्:Avatars.jpg|thumb|150px|right|भगवतः महाविष्णोः दशावताराः]]
 
:'''एको स्वादु न भुञ्जीत, एकश्चार्थान्न भुञ्जयेत् ।
Line ३२ ⟶ ३६:
:७. '''“पञ्चगव्यम्”''' – गोक्षीर-दधि-घृत-[[गोमूत्रम्|गोमूत्र]]-[[गोमयः|गोमयानां]] मिश्रणम् ।
:८. '''“अभिषेकः”''' - देवस्य मङ्गलस्नानम् ।
 
[[चित्रम्:Kalasha.jpg|thumb|150px|right|पूजार्थं सज्जीकृतः मङ्गलकलशः]]
 
:९. '''“अभिघारम्”''' – [[अन्नम्|अन्नस्य]], नैवेद्यस्य, होमद्रव्याणां वा उपरि प्रथमं परिवेष्टव्यं घृतम् ।
:१०. '''“आपोशनम्”''' – भोजनात् पूर्वं प्राक् च मन्त्रपूर्वकं सेव्यमानं जलम् ।
Line ४४ ⟶ ५१:
 
पर्वाचरणावसरे गृहे विद्यमानाः सर्वेपि सक्रियाः सन्तः भागं वहेयुः । बालाः भक्ष्यनिर्माणसदृशेषु कार्येषु भागवहनं नार्हन्ति । तदर्थं पूजादिषु भागवहनाय तत्तत्पर्वान्तर्गतदेवतासम्बद्धानि भजनानि, श्लोकाः, [[स्तोत्राणि]] वा बालाः पूर्वमेव पाठनीयाः यथा बालाः पर्वदिने मिलित्वा वक्तुं शक्नुगुः तथा । तेन पर्वविषये बालानां ज्ञानमपि वर्धते उत्साहोपि । एकैकस्याम् अपि तिथौ प्रसिद्धानां पर्वणां कण्ठपाठः कारणीयः यथा – '''युगादिप्रतिपत्, भानुद्वितीया, अक्षयतृतीया, विनायकचतुर्थी, नागपञ्चमी, सुब्रह्मण्यषष्ठी, रथसप्तमी, गोकुलाष्टमी, महानवमी, विजयदशमी, प्रथम-एकादशी, उत्थानद्वादशी, अनन्तचतुर्दशी, श्रावणपूर्णिमा, महालय-अमवास्या''' च । एवमेव तिथि-नक्षत्र-पक्ष-मास-राशीणाम् अपि कण्ठपाठः कारणीयः । तेन किं पर्व कदा भवति इति बालाः एव ज्ञातुं शक्नुवन्ति । अद्यतनबालाः एव अग्रिमराष्ट्रनिर्मातारः । अतः ते एव अस्माकं संस्कृतेः प्रवर्धकाः । पर्वणां विषये ते अवश्यं बोधनीयाः येन अस्माकं संस्कृतिः रक्षिता भवेत् । पर्वणां सुलभज्ञानाय एवं वयम् एकाम् आवलिं सज्जीकर्तुं शक्नुमः ।
 
[[चित्रम्:Ravi Varma-Rama-breaking-bow.jpg|thumb|150px|right|शिवधनुः भञ्जयन् श्रीरामः (राजा-रविवर्मणः चित्रम्]]
 
:१. चान्द्रमान[[युगादिः]] – चैत्रशुक्लप्रतिपत् ।
Line ६५ ⟶ ७४:
:१९. [[महालय-अमवास्या]] (सर्वपितृ–अमवास्या) – भाद्रपद-अमावास्या ।
:२०. [[नवरात्रम्]] – आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् (९ दिनानि) ।
 
[[चित्रम्:Navratri Golu.jpg|thumb|250px|right|नवरात्रावसरे स्थापिताः पाञ्चालिकाः]]
 
:२१. [[विजयदशमी]] – आश्वयुजशुक्लदशमी ।
:२२. [[नरकचतुर्दशी]] – आश्वयुजकृष्णचतुर्दशी ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्