"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
बीदर् मण्डलं [[कर्णाटक]]स्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर् इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य बसवकल्याणतः आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । वायुसेनायाः प्रशिक्षणकेन्द्रं कर्णाटकस्य अभिमानस्य विषयः एव ।
अस्य मण्डलस्य चारित्रिकं महत्वम् अस्ति । अत्रैव बसवण्णमहोदयस्य बहमनिसुल्तानानां च काले [[नवशिलायुग]]स्य अवशेषाः लब्दाःलब्धाः । [[राष्ट्रकूटराष्ट्रकूटाः|राष्ट्रकूटवंशजाः]]वंशजाः, [[देवगिरियादवाः]], [[काकतीयाः]] एतस्य मण्डलस्य शासनं कृतवन्तः । मण्डलस्य बसवकल्याणं चालुक्यानां राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं बिजापुरस्य बहमनिसुल्तानानां राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् मोघल् नृपस्य औरङ्गजेबस्य हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् ।[[कर्णाटक]]स्य उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं हैदराबादसंस्थानस्य अधीने आसीत्
 
==विस्तीर्णता==
५४४८ च.कि.मी. मिता।
==उपमण्डलानि -५==
बीदर, भाल्की, औराद, हुमनाबाद [[बसवकल्याणम्]]
==भैगोलिकता==
भौगोलिकतया बीदरमण्डलं [[हैद्राबाद्कर्णाटक]]भागे विराजते । एतत् भारतदेशस्य दखन्प्रस्थभूमेः भागः अस्ति । गिरिकन्दररहिता विशाला प्रस्थरभूमिः अस्य मण्डलस्य विशेषता । समुद्रतटात् ६१४मी. औन्नत्ये प्रतिष्ठितम् एतत् मण्डलम् । वार्षिकः वृष्टिप्रमाणः ९०७.५ से.मी. अस्ति । औराद्-भाल्किप्रदेशे भूमिः कृष्णमृत्तिकायुता अस्ति । अस्मिन् मण्डले कुत्रापि खनिजनिक्षेपः नास्ति ।
==नद्यः==
[[माञ्जरा]] मण्डलस्य एका प्रमुखा नदी अस्ति । गोदावर्याः उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । [[कारञ्जा]] इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । बसवकल्याणे उद्भूता [[मुल्लारी]] नदी गुल्बर्गमण्डलं प्रविशति । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
==संस्कृतिः==
Line ११ ⟶ १५:
डा.चेन्नबस पट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।
==दर्शानीयानि स्थानानि==
पापनाशदेवालयः, मैलारमल्लणगुडि, नरसिंहझरिनरसिंहझरणी, नानक् झरानानकझरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, [[कारञ्जाजलबन्धः]], जलसङ्गी देवालयःजलसङ्गीदेवालयः, औषधीयवनम्औषधीयवनं, वीरभद्रदेवालयः, [[अनुभवमण्टपम्]], अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् [[बीदर]], पापनाशिनी शुक्लतीर्थं, माणिकनगरं, भाल्की, खानापुरं जलसङ्ग्वि हुमनाबाद [[बसवकल्याणम्]] इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।
 
१) [[बीदर]]नगरम्(०८४८२) -पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति ।
 
मार्गः
:बेङ्गळूरुतः ६७० कि.मी
 
२)पापनाशिनी- बीदरतः ३ कि.मीटरदूरे पापनाशिनी क्षेत्रम् अस्ति । अत्र दाशरथिरामेण स्थापितं बृहत् शिवलिङ्गम् अस्ति । शुक्राचार्यः अत्र शिवं पूजितवान् । अत्र पापपरिहारकारकं सरः अस्ति ।
 
मार्गः-
:बीदरतः यादगिरीमार्गे ३ कि.मी ।
 
३)शुक्लतीर्थम्-बीदरदुर्गसमीपे शुक्लतीर्थमिति पवित्रं तीर्थस्थानम् अस्ति । [[शुक्लाचार्यः।शुक्लाचार्यस्य]] तपसः प्रभावेण निर्मितमेतत् । दशमुख[[रावणः]] अपि शुक्लमुनेः दर्शनार्थम् अत्र आगतवान् ।
 
४) [[नानकझरा]] -
सिखधर्मस्थापकः श्री[[गुरुनानकः]] दक्षिणभारतप्रवासार्थं बीदरनगरम् आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति।
५) जलसङ्ग्वी- जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादिन्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः [[बेलूरु]]शिलाबालिकानां स्मरणं कुर्वन्ति ।
 
मार्गः
:हुमनाबाटतः ३० कि.मी ।
:बीदरतः ६० कि.मी
 
 
{{कर्णाटकस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्