"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Shivaji Statue.jpg|250px|right|छत्रपतिः शिवाजिः]]
{{निर्वाचित लेख}}
<br>
<br>
'''छत्रपतिशिवाजी''' (१६३०-१६८०) [[मराठा साम्राज्य]]स्य संस्थापकः।
 
==छत्रपतिः शिवाजी [[Shivaji]]==
कश्चित् बालकः एकस्मिन् लघुनि सिंहासने उपविष्टवान् आसीत् । तस्य भटाः कञ्चित् ग्रामाधिकारिणम् आनीतवन्तः । तस्य अपराधःएवम् आसीत् -एकस्याः अनाथविधवायाः बलात्करणम् इति। ग्रामाधिकारिणः हस्तौ पादौ च बद्धौ आस्ताम् ।
अनाथानाम् असहायानां रक्षणं ग्रामाधिकारिणः कर्तव्यम् । किन्तु सःन कॆवलं दुष्टः अपि च गर्वी । एतावान् लघुबालकः तस्य चेष्टाः सुनिशितं परिशीलयतीति तस्य ग्रामाधिकारिणः ऊहापि नाभवत् । ग्रामाधिकारिणं न केवलं गृहीतवान् अपि तु न्यायस्थानं प्रति तम् आनीतवान् सः बालकः । सर्वविषयश्रवणानन्तरं ग्रामाधिकारी दारुणमपराधं कृतवानिति स्पष्टमभवत् ।
 
दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु'इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-"पश्यतु अस्माकं बालराजकुमारः न कॆवलं न्यायप्रिय: अपि तु, दुष्टेभ्यः किञ्चिद् अपि भीतिम् नानुभवति । सर्वस्याऽपि दोषिणः योग्यं दण्डं विदधाति । दीनानां, दुःखितानां, निर्धनानां विषये तस्य हृदयं करुणापूर्णम् अस्ति । तेषां साहाय्यता, संरक्षणं च तस्य प्राणसमम् । सर्वेभ्योऽपि विशिष्टः गुणः अस्ति--सर्वाः स्त्रियः राजकुमारः स्वमातृवत् भावयति । एषः ज्येष्ठः भूत्वा देशं, धर्मं च रक्षिष्यति इत्यत्र नास्ति सन्दॆह: । वयमपि अवश्यं तं सहकुर्मः"इति।
कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं चतुर्दशवर्षानि । शिवराजराज्ये पूना, तत्समीपप्रान्ताः च आसन् । पिता शाहराजः बीजपुरराजस्य (सुलतानस्य) सभायाम् एकः सेनापति: । जनकः पुत्रस्य स्वभावं सम्पूर्णतया जानाति स्म । विदेशीयानां पालकानां पुरतः अनमतः स्वकुमारस्य सिंहसदृशं धैर्यं यदा शाहराज:स्मरति स्म तदा तस्य हृदयं पुलकितं भवति स्म । सा घटना एव अद्भुता-
एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं (सलाम्) कृतवान् । स्वपुत्रमपि तथैव करॊतु इति सूचितवान् । तद्वाक्यश्रवणेनैव पादचतुष्टयं पृष्ठ्त: गत्वा दृढं दण्डवत् स्थित्वा असम्मतिं सूचयन् शिरः चालितवान्, अहं परपालकानां पुरतः शिरः न नामयामि इति । शिवराजस्य एतादृशी भावना तस्य तीक्ष्णदृष्टया प्रकटिता अभवत् । सिंहसदृशगाम्भीर्यॆण, दर्पेण च सः सभातः बहिरागतवान् ।
{{निर्वाचित लेख}}
<br>
<br>
'''छत्रपतिशिवाजी''' (१६३०-१६८०) [[मराठा साम्राज्य]]स्य संस्थापकः।
 
[[File:Shivaji Maharajs Statue on Pratapgad.JPG|300px|छत्रपतिः शिवाजी]]
 
बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् ।
स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं पुण्यपत्तनं (पूना) प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्