"छत्रपति शिवाजी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
<br>
'''छत्रपतिशिवाजी''' (१६३०-१६८०) [[मराठा साम्राज्य]]स्य संस्थापकः।
 
[[File:Shivaji Maharajs Statue on Pratapgad.JPG|300px|छत्रपतिः शिवाजी]]
 
बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् ।
स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं पुण्यपत्तनं (पूना) प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः ।
एतावति लघुवयसि शिवराजे एतावत् धैर्यं, शौर्यं, देशभक्तिः, धर्मे अनुरागः इत्यादय: उदात्तगुणाः कथम् आगता: ? इति प्रश्नः भवतां मनसि सहजतया भवत्येव । एतेषां सर्वेषां कारणभूता आसीत् तस्य माता जीजाबाई । शिवराजस्य बाल्यदारभ्य सा तं रामायणे महाभारते, पुराणेषु च स्थितानां वीराणां, महात्मनां जीवनकथाः श्रावयति स्म । एतादृशवीरगाथाः, धर्मगाथाः श्रावं श्रावं शिवराजस्य मनसि अपि स्वयं रामः, कृष्णः, अर्जुनः, भीमः भवेयम् इति भावना जायते स्म । एतावदेव न, शिवराजस्य विषये परमेश्वरस्य कृपा अपि आसीत् । गुरुरूपेण, मार्गदर्शकरूपेण च दादाजी कोण्डदेव इति महापुरुषः लब्धः । कर्णाटकप्रान्ते कदाचित् भव्यं दिव्यं विजयनगरसाम्राज्यम् आसीत् । तस्य साम्राज्यस्य कथाः तदा तदा शिवराज:शृणोति स्म । एताः कथाः तस्मै महतीं स्फूर्तिं दत्तवत्यः ।
[[File:Shivaji Maharajs Statue on Pratapgad.JPG|300px|छत्रपतिः शिवाजी]]
==’शिवनेरी’ भाग्यम्==
१६२७ तमॆ वर्षॆ ’शिवनेरी’दुर्गे शिवराजः जातः । भविष्यकालॆ साधनीयाय दुर्गाणां विजयाय इतः एव स स्वराज्यं सुस्थिरं कर्तुम् एच्छत् । तस्य नान्दीरुपेण केवलं षोडशॆ वर्षॆ एव एकं दुर्गं जितवान् । तस्य दुर्गस्य नाम ’तोरणम्’ । ’तोरणम्’......आः..... कीदृशं सुन्दरम् , भावयुक्तं नाम । स्वराज्यस्य आधारभूतं तत् दुर्गं सर्वत: सुरक्षितं कर्तुं सैन्यमादिशत् शिवाजि: । तस्मिन् दुर्गे यदा खननमारब्धं तदा स्वर्णनाणकैः पूर्णानि पात्राणि लब्धानि । ’महालक्ष्म्या स्वराज्यलक्ष्म्याः कृते प्रॆषिता पुरस्कृतिः एषा’ इति भाति खलु । आश्चर्यकरोऽयं विषयःयत् तत्र कर्म कुर्वतां निर्धनकर्मकराणां मनसि तस्मिन् विषयॆ क्षणकालमपि व्यामोहःन उत्पन्न: । तं निधिं सर्वमपि ते शिवराजसमीपं नीतवन्तः । ’स्वराज्य’सङ्ग्रामाय देवेनैव एतद्वनं प्रेषितमिति ते चिन्तितवन्तः ।
"https://sa.wikipedia.org/wiki/छत्रपति_शिवाजी" इत्यस्माद् प्रतिप्राप्तम्