"ब्राह्मणः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''ब्राह्मणः'''
[[File:Danidhar28.JPG|left|300px|thumb|'''यज्ञवेदी''']]ब्राह्मिन् (Brahmin) इति पदस्य संस्कृतभाषायाः ब्राह्मणः इति पदस्य च मूलम् ’ब्रह्मन्’ इति। पदस्य अर्थः श्रेष्ठः आत्मा इति । ब्राह्मणं विप्रः = प्रेरेपितः अथवा द्विजः = द्विवारं जातः इत्यपि कथयन्ति । ब्राह्मणाः वैदिकं कर्म कुर्वन्ति । ब्राह्मणः इत्युक्ते न केवलम् अर्चकः किन्तु संस्कारजीवी अपि । वेदयुगात् उत्तरे काले ब्रह्मणाः विविधाः वृत्तयः अवलम्ब्य अपि जीवनं निर्वहन्ति स्म । तत्र प्रधानतया वैद्यः योधः लेखकः, कविः, भूस्वामी, मन्त्री च भवन्ति स्म । भारतस्य केषुचित् स्थानेषु ब्राह्मणाः राजानः अपि आसन् । [[File:Brahmin boy ritual.jpg|thumb|'''अग्निकार्ये ब्राह्मणबालः''']]
 
ब्राह्मिन् (Brahmin) इति पदस्य संस्कृतभाषायाः ब्राह्मणः इति पदस्य च मूलम् ’ब्रह्मन्’ इति। पदस्य अर्थः श्रेष्ठः आत्मा इति । ब्राह्मणं विप्रः = प्रेरेपितः अथवा द्विजः = द्विवारं जातः इत्यपि कथयन्ति । ब्राह्मणाः वैदिकं कर्म कुर्वन्ति । ब्राह्मणः इत्युक्ते न केवलम् अर्चकः किन्तु संस्कारजीवी अपि । वेदयुगात् उत्तरे काले ब्रह्मणाः विविधाः वृत्तयः अवलम्ब्य अपि जीवनं निर्वहन्ति स्म । तत्र प्रधानतया वैद्यः योधः लेखकः, कविः, भूस्वामी, मन्त्री च भवन्ति स्म । भारतस्य केषुचित् स्थानेषु ब्राह्मणाः राजानः अपि आसन् ।
वेदकालात् राजानः ब्राह्मणैः सह निकटं सम्बन्धम् अस्थापयन् । नृपाः एतेषां मार्गदर्शनानुगुणं प्रशासनं कुर्वन्ति स्म । भारतदेशे ब्राह्मणाः प्रबलाः प्रभावशालिनः च आसन् । केचन एव नीचजातीयेषु पक्षपातं प्रदर्शयन्ति स्म । किन्तु आधुनिके भारते ब्राह्मणाः तद्विरुद्धे तारतम्ये पतिताः इति वदन्ति । ब्राह्मणानां परम्परायाः मूलं मध्यैष्यायाः पुरातनजनजीवनपर्यन्तम् अन्विष्टं दृश्यते ।
इतिहासः – भारते ब्राह्मणवर्गस्य इतिहासः तु हिन्दुत्वस्य आरम्भस्तरस्य वैदिकधर्मकालतः आरब्धः इति वक्तुं शक्यते । इदानीन्तने काले हैन्दवः सनातनधर्मः इत्येव कथयन्ति । वेदाः एव ब्राह्मणानाम् आचारस्य मूलस्रोतः अस्ति । प्रायः सर्वे ब्राह्मणसम्प्रदायाः वेदैः एव प्रेरिताः सन्ति । हैन्दवसम्प्रदायानुगुणं वेदः अपौरुषेयः (पुरुषकृतः न) अनादिः (आरम्भः एव नास्ति) च । किन्तु एते वेदाः सार्वत्रिकसार्वकालिकं सत्यं प्रदर्शयन्ति । वेदान् श्रुतिः (श्रवणीयः) इति परिगणनं तु ब्राह्मणानां बहूपयोगाय भवति । श्रुतौ चत्वारः वेदाः (ऋक्,सामः, यजुः, अथर्वः) तत्सम्बद्धेषु ब्राह्मणेषु संहितासु, आरण्यकेषु उपनिषत्सु च अन्तर्गच्छन्ति । ब्रह्मन् ब्राह्मिन् (उभावपि पुल्लिङ्गशब्दौ) समानशब्दौ न । ब्रह्मन् शाब्दः पुँल्लिङ्गे स्वीकृतः चेत् ब्राह्मणः इत्येव अर्थं जनयति । ब्रह्मन् नपुंसकलिङ्गम् इति परिगणितं चेत् परमात्मा इति अर्थं ददाति । किन्तु ब्राह्मिन्/ब्राह्मणः इति पदं कञ्चित व्यक्तिं सूचयति ।
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्