"उडुपी" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
[[File:Udupigopura.jpg|300px|thumb|'''श्रीकृष्णमन्दिरम्''']][[कर्णाटक]]राज्ये विद्यमानस्य [[उडुपीमण्डलम्|उडुपीमण्डलस्य]] केन्द्रम् ।उडुप इति शब्दः '''उडुपी''' इति परिवर्तितः अस्ति । उडुप इत्यस्य चन्द्रः इत्यर्थः । अस्मिन् स्थले चन्द्रः दक्षशापपरिहारार्थं तपः आचरितवान् । चन्द्रस्य उग्रतपसा परशिवः अत्र प्रत्यक्षः आसीत् । तस्य स्मरणार्थम् एव चन्द्रमौलीश्वरदेवालयः स्थापितः अस्ति । उडुपीनगरं शिवळ्ळि इति अपि कथयन्ति । पूर्वं ”’शिवबेळ्ळी”’ इति आसीत् इति श्रूयते । वादिराजस्वामिनः ”’महेशरजत”’ इति आकारितवन्तः । रजतपीठं इत्यपि एकम् अस्य नाम अस्ति ।
कृतयुगे परशुरामः २२ वारम् प्रदक्षिणां कृत्वा क्षत्रियाणां संहारं कृतवान् । सर्वां भूमिं ब्राह्मणेभ्यः दत्तवान् । अनन्तरं दत्ते स्थले स्वयं वासकरणम् अनुचितम् इति मत्वा स्वशक्त्या समुद्रम् एव दूरे अपसार्य नवीनं क्षेत्रम् निर्मितवान् । एतत् [[परशुरामक्षेत्रम्]] इति ख्यातमस्ति । अनन्तरम् एतत् क्षेत्र रामभोजस्य वशे कृतवान् ।[[File:Geetha Mandir Udupi.JPG|left|300px|thumb|'''गीतामन्दिरम्''']]
रामभोजः [[अश्वमेधयाग]]समये परशुरामम् आहूय रजतपीठासने उपवेशनाय व्यवस्थां कृतवान् । यागानन्तरम् तत्पीठम् पातालमगच्छत् । तस्मिनस्थले शिलालिङ्गः आविर्भूतः तत्र परशुरामस्यापि सान्निध्यम् आस्ति । एतस्य अनन्तासनः अथवा अनन्तेश्वरः इति कथयन्ति । अनन्तासनः एव परशुरामः। एषः देवः एव शिवबेळ्ळिनगरस्य मुख्यप्राणभूतः इव आसीत् ।
[[श्रीमन्मध्वाचार्यः]] अस्मिन् देवालये एव् पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलतिस्म (अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।
"https://sa.wikipedia.org/wiki/उडुपी" इत्यस्माद् प्रतिप्राप्तम्