"हळेबीडु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Halebid5.JPG|thumb|'''हलेबीडु''']]
[[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] विद्यमाना एषा नगरी होय्सलराजानां राजधानी आसीत्। आदौ सोसेवूरु इति नाम आसीत् । ततः द्वारावती द्वारसमुद्रं हळेबीडु इति नाम प्राप्तमस्ति । एकादशशतकतः १४ शतकपर्यन्तं होय्सळानां राजधानी एषा नगरी वैभवेण दुर्गराजगृहादिभिः पूर्णा आसीत्। होय्सळेश्वरदेवालयः महोन्नतः द्विकूटदेवालयः अस्ति । नक्षत्राकारे आधाराङ्णे पूर्वाभिमुखम् अयं देवालयः शिलया निर्मितः अस्ति ।
विस्तृते अङ्गणे मण्डपद्वयम् अस्ति । तत्र नन्दीशस्य बृहत् विग्रहः लघुनन्दीविग्रहश्च स्तः । एकः होय्सळेश्वरः अपरः शान्तलेश्वरः । बाह्यावरणे विविधस्तरेषु प्राकारेषु निर्मितेषु- शिल्पेषु रामायणमहाभारतयोः कथानां विविधसन्निवेशानां चित्रणं कृतम् अस्ति।
विविधशिलास्तरेषु गजानां सिंहानां अश्वानाम् उष्ट्राणां, लतानां च शिल्पाणि सन्ति । न केवलं तावत् भागवतकथाः शिवपुराणकथाः मकराणां हंसानां पङ्क्तयः अपि विराजन्ते । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।[[File:Halebid1.jpg|left|thumb|'''शिवपारवतिशिल्पः''']]
:मार्गः -हासनरेलनिस्थानतः २७ कि.मी। बाणावरतः ३२ कि.मी।
:लोकयानम् -बेलूरुतः २६ कि.मी। मैसूरुतः २५० कि.मी। बेङ्गळूरुतः २१४ कि.मी
"https://sa.wikipedia.org/wiki/हळेबीडु" इत्यस्माद् प्रतिप्राप्तम्