"नृसिंहजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
श्रीमद्भागवते नरसिंहावतारः एवं वर्णितः अस्ति –
 
[[वैकुण्ठम्|वैकुण्ठस्य]] द्वारपालकौ [[जयविजयौ]] सनकादिमुनीनां शापकरणतः असुरजन्म प्राप्नुवन्ति । तेषु त्रिषु असुरजन्मसु प्रथमं जन्म एव [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपोः]] । महाविष्णुः [[वराहावतारः|वराहावतारेण]] हिरण्याक्षं संहरति । तेन कुपितः हिरण्यकशिपुः भगवद्भक्तान् सज्जनान् देवान् च बहुधा पीडयितुम् आरब्धवान् । तीक्ष्णं तपः आचर्य '''“नरैःनरैः वा मृगैः वा, सुरासुर-उरगैःसुरासुरोरगैः वा, ब्रह्मणा सृष्टेन येनकेनापि प्राणिना वा, दिवा वा रात्रौ वा, भूमौ वा आकाशे वा, गृहस्य अन्तः वा बहिः वा, येन केनापि आयुधेन वा मम मृत्युः न सम्भवेत् । सर्वत्रापि मम एकाधिपत्यं च भवेत् ।“''' इति ब्रह्मसकाशात् वरं प्राप्नोत् । तस्य वरस्य बलेन लोककण्टकः सञ्जातः । हिरण्यकशिपोः पुत्रः [[प्रल्हादः|प्रह्लादः]] । राज्ञः आज्ञानुगुणं [[शुक्राचार्यः|शुक्राचार्यस्य]] शिष्याः तम् असुरसिद्धान्तं बोधितवन्तः । पित्रा यदा प्रश्नः कृतः तदा सः '''“विष्णुभक्तिरेव श्रेष्ठा”''' इत्यवदत् । पुनः पुनः पृष्टे सति तदेव उत्तरं प्राप्य कुपितः हिरण्यकशिपुः पुत्रं प्रह्लादं संहर्तुम् आदिष्टवान् । तदनुगुणं दैत्यभटाः तं शूलादि आयुधैः, विषसर्पैः, दिग्गजैः, अभिचारक्रियाभिः इत्यादिभिः बहुविधोपायैः मारयितुं प्रयत्नम् अकुर्वन् । किन्तु ते तस्मिन् कर्मणि सफलाः नाभवन् । तदा क्रुद्धः हिरण्यकशिपुः सन्ध्यासमये प्रह्लादं सभाम् आहूय सर्वेषां पुरतः खड्गपाणिः सन् '''“कुत्र अस्ति भवतः विष्णुः ? भवता सर्वव्यापी इति उच्यमानः सः अस्मिन् स्तम्भे अपि अस्ति वा ? यदि अत्र सः न दृश्यते तर्हि भवन्तम् अत्रैव मारयामि”''' इति वदन् [[स्तम्भः|स्तम्भं]] मुष्ट्या अताडयत् । तदा तस्मात् स्तम्भात् भीकरं गर्जनं श्रुतम् । ततः कण्ठपर्यन्तं नररूपः तदुपरि [[सिंहः|सिंहरूपः]] च उग्रमूर्तिः नृसिंहः आविर्भूतः ।
 
:'''सत्यं विधातुं निजभृत्यभाषितम् ।'''
"https://sa.wikipedia.org/wiki/नृसिंहजयन्ती" इत्यस्माद् प्रतिप्राप्तम्