"दीपावलिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
 
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै [[तिलः|तिल]]तर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, [[अश्वः|अश्व]]शालासु, [[गजः|गज]]शालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, [[शिवः|शिवं]], महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
 
[[चित्रम्:Navratridurgapuja.jpg|thumb|250px|right|दीपावलिपर्वणि प्रज्वालिताः दीपाः]]
 
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति [[भेरिः|भेरि]][[पणवानकः|पणवानकै:]] महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि [[ताम्बूलम्|ताम्बूलं]] च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं [[कुबेरः|कुबेरम्]] अपि पूजयन्ति ।
Line ६४ ⟶ ६२:
:'''”यमं च यमुनां चैव चित्रगुप्तं च पूजयेत् ।'''
:'''अर्घ्यात्र प्रदातव्यो यमाय सहजद्वयै: ॥“'''
[[File:Lanterns-at-Durpan-stores.gif|thumb|'''आकाशदीपः''']]
 
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं ५ दिनानि आचरन्ति दीपावलीपर्व ।
 
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्