"होलीपर्व" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे [[भारतम्|भारते]] सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्री[[कृष्णः|कृष्णस्य]] दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति [[पुराणम्|पुराणेषु]] ।
 
[[चित्रम्:A Holi Festival - Krishna Radha and Gopis.jpg|thumb|150px|right|'''भगवान् श्रीकृष्णः राधा तथा अन्याभिःश्रीकृष्णस्य गोपिकाभिः सह होलीक्रीडां क्रीडतिहोलीक्रीडा''']]
 
होलिकानामिका [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपो:]] सोदरी । महामायाविनी सा [[अग्निः|अग्निसिद्धिम्]] अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परम[[विष्णुः|विष्णुभक्तं]] स्वपुत्रं [[प्रह्लादः|प्रह्लादं]] मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं पाप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।
[[File:Holi bonfire.jpg|left|200px|thumb|'''कामदहनम्''']]
 
[[सत्ययुगम्|सत्ययुगे]] ढुण्ढानामिका मालिनामकस्य राक्षसराजस्य पुत्री आसीत् । सा कठोरं तप: आचर्य युवै: वा वृद्धै: वा मनुष्यै:, देवै: केनापि प्राणिना च मम मरणं न भवेत् इति वरं प्राप्तवती । बाला: किं कर्तुं शक्नुयु: इति तेषाम् उपेक्षां कृतवती । सा पृथु अथवा रघु इत्याख्यातस्य राज्ञ: काले अहर्निशं सञ्चरन्ती बालान् सर्वान् मारयति स्म । मायाविनीं तां राक्षसीं गृहीतुं केऽपि न शक्तवन्त: । [[वसिष्ठः|वसिष्ठ]]महर्षिद्वारा तस्या: रहस्यं ज्ञातवान् राजा तस्या: ग्रहणकार्ये बालान् एव नियुक्तवान् । फाल्गुनमासस्य पूर्णिमायां देशस्य सर्वे बाला: सम्भूय काष्ठकारीषेषु अग्निं प्रज्वाल्य नृत्यन्त: चीत्कुर्वन्त: तस्या: ग्रहणार्थं धावितवन्त: । भीता सा मनुष्यलोकादेव निर्गता । एतस्य स्मरणार्थम् होलीपर्व आचर्यते ।
 
पङ्क्तिः १३:
[[चित्रम्:Holi celebrations, Pushkar, Rajasthan.jpg|thumb|200px|left|राजस्थाने पुष्करनगरे होलीक्रीडा]]
 
:'''”दशस्युदशस्यु: शोभमानास्तु काष्ठस्तेयं विधीयते ।'''
:'''चण्डालसूतिकागेहाच्छिशुहारितवह्निना ॥'''
:'''प्राप्तायां पूर्णिमायां तु कुर्यात्काष्ठप्रदीपनम् ।'''
:'''ग्रामद्बहिा मध्ये वा तूर्यनादसमन्वित: ॥'''
:'''स्नात्वा राजा शुचिर्भूत्वा स्वस्तिवाचनतत्पर: ।'''
:'''दत्वा दानानि भूरीणि दीपयेद्धोलिकाचितिम् ॥“'''
 
एवं रात्रौ होलिकोत्सवम् आचर्य अपरस्मिन् दिने प्रात:काले सर्ववर्गीया: अपि जना: मिलित्वा आमोदप्रमोदम् आचरन्ति । पाटलवर्णस्य जलं प्रथमं देवेभ्य: ज्येष्ठेभ्य: च समर्प्य प्रसादरूपेण परस्परं सिञ्चन्ति ।
वङ्गदेशे तद्दिने श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । तत्र त्रीणि वा पञ्च वा दिनानि पर्व आचरन्ति । फाल्गुनशुद्धचतुर्दश्यां रात्रौ मण्डपस्य पूर्वभागे अग्निदेवस्य आराधनं कुर्वन्ति । गोविन्दस्य विग्रहं कृत्वा १६ स्तम्भै: युक्तस्य मण्डपस्य वेदिकायां प्रतिष्ठापयन्ति । पञ्चामृताद्यै: अभिषेकं कृत्वा देवस्य अलङ्कारं कुर्वन्ति । अनन्तरं सम्यगलङ्कृतायाम् आन्दोलिकायां देवम् उपवेश्य सप्तवारं आन्दोलयन्ति । उत्सवस्य प्रथमदिने ज्वालितम् अग्निम् अन्तिमदिनपर्यन्तमपि रक्षन्ति । अन्तिमदिने देवम् २१ वारम् आन्दोलयन्ति । [[इन्द्रद्युम्नः|इन्द्रद्युम्नमहाराज:]] [[वृन्दावनम्|वृन्दावने]] एतत् पर्व आरब्धवान् इति विश्वसन्ति जना: ।
[[File:Holi in Pune.jpg|thumb|'''वर्णविलेपनम्''']]
 
[[वर्गः:संस्कृतिः]]
[[वर्गः:हिन्दुधर्मः]]
"https://sa.wikipedia.org/wiki/होलीपर्व" इत्यस्माद् प्रतिप्राप्तम्