"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उत्सूते अनेन मानवाः इति उत्सवः। उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः]] '''“उत्सवप्रियाःउत्सवप्रियाः खलु मनुष्याः”मनुष्याः''' (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु '''’पर्व’पर्व''' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।
[[चित्रम्:Navratri Golu.jpg|thumb|400px|right|नवरात्रावसरे स्थापिताः पाञ्चालिकाः]]
[[चित्रम्:Deepavali-haNate.jpg|thumb|150px|right|प्रज्वालितौ मङ्गलसूचकौ तैलदीपौ]]
पङ्क्तिः २८:
 
पाश्चात्त्यसंस्कृतेः प्रभावयुतस्य जीवनस्य कारणात् वयम् अस्माकम् आचरणेषु बहूनाम् आचरणानां विशिष्टानि पदानि वा तेषां पदानाम् अर्थं वा न जानीमः एव । यथा –
:१. '''“प्रदक्षिणम्”प्रदक्षिणम्''' – मनसि देवमेव स्मरन्तः दक्षिणभागतः वामभागं भ्रमणम् ।
:२. '''“साष्टाङ्गनमस्कारः”साष्टाङ्गनमस्कारः''' – शरीरस्य अष्टौ अपि अवयवाः यथा भूमिं स्पृशेयुः तथा नमस्करणम् ।
:३. '''“नैवेद्यम्”नैवेद्यम्''' – देवाय समर्पणयोग्यं किञ्चित् वस्तु [[पुष्पम्]], [[फलम्]], खाद्यम् यत्किञ्चित् ।
:४. '''“प्रसादः”प्रसादः''' – देवाय समर्पणानन्तरम् अवशिष्टम् ।
:५. '''“तीर्थम्”तीर्थम्''' – पवित्रं [[जलम्]] ।
:६. '''“पञ्चामृतम्”पञ्चामृतम्''' – [[दुग्धम्|दुग्धं]], [[दधि]], [[घृतम्|घृतं]], [[मधु]], [[शर्करा]] चेति पञ्चानाम् अमृतसदृशाणां पदार्थानां सम्मिश्रणम् ।
:७. '''“पञ्चगव्यम्”पञ्चगव्यम्''' – गोक्षीर-दधि-घृत-[[गोमूत्रम्|गोमूत्र]]-[[गोमयः|गोमयानां]] मिश्रणम् ।
:८. '''“अभिषेकः”अभिषेकः''' - देवस्य मङ्गलस्नानम् ।
 
[[चित्रम्:Kalasha.jpg|thumb|150px|right|पूजार्थं सज्जीकृतः मङ्गलकलशः]]
 
:९. '''“अभिघारम्”अभिघारम्''' – [[अन्नम्|अन्नस्य]], नैवेद्यस्य, होमद्रव्याणां वा उपरि प्रथमं परिवेष्टव्यं घृतम् ।
:१०. '''“आपोशनम्”आपोशनम्''' – भोजनात् पूर्वं प्राक् च मन्त्रपूर्वकं सेव्यमानं जलम् ।
:११. '''“अर्घ्यम्”अर्घ्यम्''' – हस्तप्रक्षालनार्थं दीयमानं जलम् ।
:१२. '''“पाद्यम्”पाद्यम्''' – पादप्रक्षालनार्थं दीयमानं जलम् ।
:१३. '''“हस्तोदकम्”हस्तोदकम्''' – भोजनात् पूर्वं यजमानेन हस्ते स्थापनजलम् ।
:१४. '''“अन्नशुद्धिः”अन्नशुद्धिः''' – ओदनस्य उपरि परिवेष्यमाणं घृतम् ।
:१५. '''“पञ्चाङ्गम्”पञ्चाङ्गम्''' – तिथि-नक्षत्र-वार-योग-करणानि च ।
:१६. '''“मङ्गलकलशः”मङ्गलकलशः''' – व्रत-विवाह-यज्ञ-यागादिषु शुभावसरेषु स्थाप्यमानः जलपूरितकलशः ।
:([[सुवर्णम्|स्वर्ण]]-[[रजतम्|रजत]]-[[ताम्रम्|ताम्र]]-[[कांस्यम्|कांस्य]]-[[पित्तलम्|पित्तल]]-[[मृत्तिका|मृत्तिकायाः]] वा स्यात् कलशः)
:१७.''' “उपवासः”उपवासः''' – समीपे वासः (देवस्य समीपे इत्यर्थः) ।
 
पर्वाचरणावसरे गृहे विद्यमानाः सर्वेपि सक्रियाः सन्तः भागं वहेयुः । बालाः भक्ष्यनिर्माणसदृशेषु कार्येषु भागवहनं नार्हन्ति । तदर्थं पूजादिषु भागवहनाय तत्तत्पर्वान्तर्गतदेवतासम्बद्धानि भजनानि, श्लोकाः, [[स्तोत्राणि]] वा बालाः पूर्वमेव पाठनीयाः यथा बालाः पर्वदिने मिलित्वा वक्तुं शक्नुगुः तथा । तेन पर्वविषये बालानां ज्ञानमपि वर्धते उत्साहोपि । एकैकस्याम् अपि तिथौ प्रसिद्धानां पर्वणां कण्ठपाठः कारणीयः यथा – '''युगादिप्रतिपत्, भानुद्वितीया, अक्षयतृतीया, विनायकचतुर्थी, नागपञ्चमी, सुब्रह्मण्यषष्ठी, रथसप्तमी, गोकुलाष्टमी, महानवमी, विजयदशमी, प्रथम-एकादशी, उत्थानद्वादशी, अनन्तचतुर्दशी, श्रावणपूर्णिमा, महालय-अमवास्या''' च । एवमेव तिथि-नक्षत्र-पक्ष-मास-राशीणाम् अपि कण्ठपाठः कारणीयः । तेन किं पर्व कदा भवति इति बालाः एव ज्ञातुं शक्नुवन्ति । अद्यतनबालाः एव अग्रिमराष्ट्रनिर्मातारः । अतः ते एव अस्माकं संस्कृतेः प्रवर्धकाः । पर्वणां विषये ते अवश्यं बोधनीयाः येन अस्माकं संस्कृतिः रक्षिता भवेत् । पर्वणां सुलभज्ञानाय एवं वयम् एकाम् आवलिं सज्जीकर्तुं शक्नुमः ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्