"वेदव्यासः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''व्यासः''' (Vyasa)[[File:Vyasa.jpg|left|thumb|'''भगवान् वेदव्यासः''']]
महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।
 
व्यासस्य शैली अपि वाल्मीके: इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुपछ्न्दसा एव उपनिबद्धम् अस्ति ।
भगवान् वेदव्यास: महर्षे: पराशरस्य पुत्र: । एष: कैवर्तराजस्य पालितपुत्र्याः सत्यवत्या: गर्भे जन्म प्राप्तवान् । एष: कश्चन अलौकिक: शक्तिसम्पन्न: महापुरुष: अपि च महानाकारक पुरुष: आसीत् । एष: जनानां स्मरणशक्ते: क्षीणतां दृष्ट्वा वेदानाम् ऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्वणवेद: च इति विभजनम् अकरोत् । प्रत्येकां संहिताम् अपि प्रत्येकस्मै शिष्याय बोधितवान् । एकैकस्याः: संहिताया: अपि अन्यान्या: शाखा:, उपशाखा: च अभवन् । एवं एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तार: अभवत् । विस्तारं व्यास: इति वदन्ति । वेदस्य विस्तार: एतेन अभवत् इति कारणेन एष: ‘वेदव्यास:’ नाम्ना प्रसिद्धः जात: । एतस्य जन्म कस्मिश्चित् द्वीपे अभवत् । श्यामलवर्णस्य एतं जना: ‘कृष्णद्वैपायन’ इत्यपि आह्वयन्ति । बदरीवने एष: आसीत् इति कारणेन एतस्य नाम ‘बादरायण:’ इत्यपि आसीत् । अष्टादशपुराणा:, महाभारतस्य रचनाम् एष: एव अकरोत् । संक्षेपेण उपनिषद: तत्त्वान् बोधयितुं ब्रह्मसूत्राणां निर्माणम् अकरोत् । तेषां विषये अन्यान्या: आचार्या: भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्त: । ‘व्यासस्मृति:’ एतेन रचित: कश्चन स्मृतिग्रन्थ: । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृते: विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधान: व्याख्यानकार: व्यास: इति उच्यते । हिन्दव:, भारतीयसंस्कृति: च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एष: महान् श्रेष्ठ: पथप्रदर्शक:, शिक्षक: च इति उच्यते । अत: तस्य ‘जगद्गुरु:’ इति गौरवम् अपि प्राप्तम् अस्ति । गुरुपूर्णिमायां [आषाढपूर्णिमा] प्रत्येकहिन्दूगृहस्थ: एतस्य पूजां करोति । एष: श्रीकृष्णपरमात्मनः तम् अमरम् उपदेशं स्वस्य महाभारतस्य संहितायां योजयित्वा जगति तम् उपदेशं सुलभं कृतवान् अस्ति ।
महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते ।
रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । व्यासः योग्यस्य लेखकस्य अभावं वदति । ततः गणेशः भारतकथायाः लेखनकार्यम् अङ्गीकरोति । व्यासेन उक्तां भारतकथां सः लिखति च । आर्यभटः वदति - क्रि. पू. ३१०१ तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्य:।
महाभारते बह्वयः उपकथाः उपलभ्यन्ते । अतः भारतकथाम् अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।
 
व्यासस्य शैली अपि वाल्मीके: इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुपछ्न्दसा एव उपनिबद्धम् अस्ति ।
महर्षि: वेदव्यास: त्रिकालदर्शी, इच्छागतिमान् च आसीत् । एष: सर्वस्य मनस: चिन्तनं ज्ञातुं शक्नोति स्म । यत्र इच्छति क्षणाभ्यन्तरे तत्र गन्तुं शक्नोति स्म। जन्मानुक्षणं मातु: आज्ञां प्राप्य तप: कर्तुं वनं गतवान् । गमनसमये उक्त्वा गतवान् यद् – ‘यदा भवत्यै मम आवश्यकता भवति तदा मां स्मरतु । अहं भवत्या: समीपे उपस्थितः भविष्यामि’ इति ।
 
पाण्डवा: विदुरस्य युक्त्या लाक्षागृहत: बहि: आगत्य एकचक्रनगरे आसन् । तस्मिन् सन्दर्भे व्यास: मेलनार्थं तत्र गतवान् आसीत् । प्रसङ्गवशात् स: द्रौपद्या: पूर्वजन्मन: वृत्तान्तं कथयन् ‘एषा कन्या भवद्भ्यः इति एव पूर्वनिश्चिता अस्ति’ इति । एतत् वचनं श्रुत्वा पाण्डवानाम् आनन्द: उत्साह: च वर्धितः । ते द्रौपद्या: स्वयंवरे भागं ग्रहीतुं पाञ्चालनगरं गतवन्त: । तत्र अर्जुन: स्वयंवरस्य नियमानुसारं द्रौपदीं जितवान् । मातुः कुन्त्याः आज्ञया यदा पञ्चसहोदरा: अपि तया सह विवाहं कर्तुम् इच्छन्ति तदा राजा [[द्रुपदः]] न अङ्गीकरोति । तस्मिन् समये व्यास: तत्र आगत्य तस्या: पूर्वजन्मनः वृत्तान्तं निवेद्य पञ्चभिः सहोदरै: सह तस्या: विवाहं कारयितुं द्रुपदम् अङ्गीकारितवान् ।
 
यदा महाराज: युधिष्ठिर: इन्द्रप्रस्थनगरे [[राजसूययागः|राजसूययागं]] कृतवान् तदापि वेदव्यास: यज्ञे भागं ग्रहीतुं स्वस्य शिष्यवृन्दै: सह आगतवान् आसीत् । यज्ञं समाप्य गमनसमये स: युधिष्ठिरम् “अद्यारभ्य त्रयोदशवर्षाणाम् अनन्तरं क्षत्रियाणां महासंहार: भविष्यति । तस्मिन् दुर्योधनस्य अपराधानां भवान् निमित्त: भविष्यति” इति वदति ।
 
पाण्डवानां सर्वस्वम् अपहृत्य तान् द्वादशवर्षाणां वनवासं प्रति प्रेषयित्वा अपि दुर्योधनः न हृष्टः। स: पाण्डवान् वने एव मारयितुं चिन्तितवान् । मातुल: [[शकुनि:]], [[कर्ण:]], [[दु:शासनः]] इत्येतैः सह रहस्येण पाण्डवानाम् उपरि आक्रमणं कर्तुं निश्चित्य शस्त्रास्त्रैः सुसज्जितं रथम् आरुह्य वनं प्रस्थितवान् । व्यास: दिव्यदृष्ट्या एतत् दुष्टं षड्यन्त्रं ज्ञातवान् । स: अनुक्षणं तत्र आगत्य घोरात् दुष्कर्मणः तं निवारितवान् । अनन्तरं स: धृतराष्ट्रं ‘भवान् द्यूतस्य पराजयव्याजेन पाण्डवान् वनं प्रेषितवान् । एतत् सत्कार्यं न । एतस्य परिणाम: उत्तम: न भवति । भवान् भवत:, भवत: पुत्राणां च हितम् इच्छति चेत् इदानीं वा कृतस्य दोषस्य परिहारं करोतु । दुरात्मा दुर्योधन: राज्यलोभेन पाण्डवान् मारयितुम् इच्छति ! पाण्डवान् यदि मारयितुं यत्नं करोति तर्हि तेन तस्य प्राणा: दातव्या: भवेयुः। भवान् यदि पुत्रस्य द्वेषबुद्धेः निवारणं कर्तुं यत्नं न करोति तर्हि अनर्थ: भविष्यति । दुर्योधन: एक: एव गत्वा किञ्चित् कालं पाण्डवानां समीपे तिष्ठतु इति मम अभिप्राय: । पाण्डवानां सत्सङ्गेन तस्य द्वेषभाव: प्रणश्य प्रेमभावस्य जागरणं भवेत् । एतद् कठिनम् अस्ति । यत: जन्मत: आगतस्य स्वभावस्य परिवर्तनं सहजं न । पाण्डवै: सह भवत: पुत्रा: मिलित्वा तिष्ठन्ति चेत् कुरुवंश: अवशिष्यते। किञ्चित् कालाभ्यन्तरे महर्षि: मैत्रेय: अत्र आगमिष्यति । स: भवत: पुत्राय मिलित्वा तिष्ठन्तु” इति उपदेशं करोति । चिन्तनं विना भवन्त: तस्य वचनं शृण्वन्तु । अन्यता स: कोपेन शापं दद्यात्’ इत्यपि व्यास: उक्तवान् । तथैव किञ्चिदनन्तरं मैत्रेय: तत्र आगत्य बोधनं कृतवान् । किन्तु दुर्योधन: तस्य वचनं न श्रुतवान् । अत: महर्षे: कोपम् अनुभूतवान् ।
 
यदा पाण्डवा: वने आसन् तदा कदाचित् स: आगत्य युधिष्ठिरस्य द्वारा अर्जुनाय स्मृतिविद्याया: उपदेशं दत्तवान् । अत: अर्जुनाय देवदर्शनस्य योग्यता आगता । तावदेव न, व्यास: सञ्जयाय दिव्यदृष्टिं दत्तवान् । तेन कारणेन स: युद्धस्य सर्वान् विशयान् ज्ञातुं शक्नोति स्म । भगवत: विश्वरूपस्य दिव्यचतुर्भुजस्य रूपस्य देवदुर्लभदर्शनस्य योग्यतामपि प्राप्तवान् । साक्षात् भगवत: मुखत: भगवद्गीताया: दिव्योपदेशम् अपि श्रुतवान् । अर्जुनेन विना अन्ये केऽपि गीतां न श्रुतवन्त: । दिव्यदृष्टेः प्रभावत: सञ्जयाय एषा योग्यता आगता । स: तु साक्षात् नारायणस्य अंश: एव आसीत् ।
 
धृतराष्ट्र: गान्धारी कुन्ती च यदा वने आसन् तदा कदाचित् युधिष्ठिर: तान् द्रष्टुं परिवारै: सह तत्र गतवान् आसीत् । तदा व्यास: अपि तत्र आगतवान् आसीत् । धृतराष्ट्रगान्धार्यो: पुत्रशोकम् इतोऽपि न गतमासीत् । कुन्ती अपि बान्धवानां वियोगेन दु:खे अस्ति इति ज्ञात्वा धृतराष्ट्रं प्रति वरं प्रष्टुं व्यास: वदति । युद्धे मृतानां पुत्राणां मित्राणां च गति: का स्यात् इति स: ज्ञातुम् इष्टवान् । “एकवारं तान् सर्वान् द्रष्टुम् इच्छामि” इति स: व्यासं प्रार्थितवान् । व्यास: वदति यद् – शयनानन्तरम् उत्थितं मानवमिव अद्य रात्रौ भवन्त: सर्वे मृतान् बन्धून् पश्यन्ति’ इति । सर्वे सायंकर्माणि समाप्य गङ्गातटे मिलितवन्त: ।
 
व्यास: गङ्गाया: पवित्रं जलं प्रविश्य युद्धे मृतान् कौरवान् पाण्डवान् च उच्चैः आह्वयति । अनुक्षणं यथा कुरुक्षेत्रस्य अङ्गणे युद्धाय समावेशितानां सैन्यानां कोलाहलः श्रूयते स्म तथा शब्द: जलेऽपि श्रुत: । अनन्तरं युद्धे वीरगतिं प्राप्तवन्तः सर्वे राजान:, राजकुमारा: च भीष्मद्रोणादीनां नेतृत्वे एव जलत: बहि: आगतवन्त:। युद्धसमये यथा वेशं, ध्वजं, वाहनं, दिव्यवस्त्रं, दिव्यमाला:, कुण्डलं च धृतवन्त: आसन् तथा एव इदानीमपि धृतवन्त: आसन् । सर्वाणि शरीराणि अपि दिव्यप्रभया कान्तियुक्तानि आसन् । प्रत्येकम् अपि क्रोधरहित:, द्वेषासूयारहित:, निरभिमानयुक्त: च दृश्यन्ते स्म । गन्धर्वा: तेषां यशोगानं कुर्वन्त: आसन् । वन्दीजना: तेषां स्तुतिं कुर्वन्त: आसन् । तदा व्यास: धृतराष्ट्राय दिव्ये नेत्रे दत्तवान् आसीत् । अत: स: सम्यक् सर्वान् योधान् अपश्यत् ।
 
तत् दृश्यं तु अत्यद्भुतम्, अचिन्त्यं, रोमाञ्चकारि च आसीत् । सर्वे तदेकदृष्ट्या तत् दृश्यं दृष्टवन्त: । आगता: जना: क्रोधेन विना बन्धुभि: मिलितवन्त: । एवम् आरात्रि प्रेमीणां समागम: चलति स्म । अनन्तरं ते सर्वे यथा आगतवन्त: तथैव भागीरथ्या: जलं प्रविश्य स्वलोकान् गतवन्त: । तदा व्यास: वदति ‘काः अपि स्त्रिय: पत्यु: लोकं गन्तुम् इच्छन्ति चेत् गङ्गायां प्रवेशः करणीयः ’ इति । तच्छृत्वा बह्व्यः: स्त्रिय: जलं प्रविश्य मानवदेहं त्यक्त्वा पत्यु: लोकं गतवत्य: । एता: अपि दिव्यं वस्त्राभूषणं धृत्वा विमानयाने उपविश्य गतवत्यः ।
 
अत्र राजा [[जनमेजय:]] वैशम्पायनस्य मुखत: एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । स: अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऎच्छत् । व्यास: तदापि तत्रैव आसीत् । स: तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजय: यज्ञान्ते स्नानसमये स्वेन सह पितु: अपि स्नानं यदा कारयति तदनन्तरं परीक्षित: तत: प्रस्थितवान् । एवं महर्षि: वेदव्यास: कश्चन अलौकिक: शक्तिशाली महापुरुष: च ।
 
 
[[वर्गः:काव्यम्|व्यासः]]
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्