"गणराज्योत्सवः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।
प्रजाराज्योत्सवं [[गण्तन्त्रदिवसः]] [[गणराज्योत्सवःप्रजाराज्योत्सवः]] इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति ।
जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् । देशे तथा विदेशेषु च भारतस्य सामाजिक-आर्थिक-सांस्कृतिक-वैभवस्य प्रदर्शनं तथा शान्ति- सुव्यवस्थास्थापनं विदेशैः सह उत्तमसम्बन्धस्थापनम् इत्यादीनि संविधानस्य उद्देश्यानि । भारतीय संविधानम् लिखितं संविधानम् अस्ति । अत्र ३९५ विधयः, अष्ट-अनुसूच्यः सन्ति । संविधान- रचनासमितेः अध्यक्षः भारतदेशस्य [[राष्ट्रपतिः]] श्री [[बाबूराजेन्द्रप्रसादः]] आसीत् । संविधानसङ्ककलनसमितेः अध्यक्षः डा बी आर् [[अम्बेड्करः]] आसीत् । अतः अम्बेडकरमहोदयं भारतीयसंविधानशिल्पी इति कथयन्ति ।
संविधाने मुख्यतः राष्ट्रपतिः [[उपराष्ट्रपतिः]] [[लोकसभा]] [[राज्यसभा]] इत्यादीनां व्याख्या, चयनं, चालनं इत्यादि नियमाः निरुपिताः सन्ति । भारतदेशः अनेकराज्यानां गणानां समूहात्मकः अस्ति । राष्ट्रे लोकसभा राज्यसभा च इति उभयसदने स्तः । राज्येषु [[विधानसभा]] [[विधानपरिषद्]] इति च स्तः ।
"https://sa.wikipedia.org/wiki/गणराज्योत्सवः" इत्यस्माद् प्रतिप्राप्तम्