"भीमराव रामजी आंबेडकर" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः २:
(बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्य धीमान् इति पख्यातः अभवत् ।तस्य आदर्शमयस्य विद्यार्थिवीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः
 
डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म महाराष्ट्रस्य अम्बावाड इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षॆ) एप्रिलमासे चतुर्दशदिनाङ्के अभवत । भीमस्य पिता राजजी सक्पालः माता चअ भीमाबायी । मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् ।
 
भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् ।
"https://sa.wikipedia.org/wiki/भीमराव_रामजी_आंबेडकर" इत्यस्माद् प्रतिप्राप्तम्