"राजीवगान्धिजन्मदिनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
१९८४ तमे वर्षे भारतदेशे सामान्यनिर्वाचनं प्राचलत् । तत्र लोकसभायां पूर्णबहुमतं प्राप्य काङ्ग्रेस- पक्षः अधिकारं गृहीतवान्। श्रीराजीवगान्धिः एव देशस्य प्रधानमन्त्री अभवत् ।
[[श्रीलङ्का]] देशे तमिळ्उग्रवादिभिः आन्दोलनम् प्रवर्तितम् आसीत्। श्रीलङ्कादेशस्य अध्यक्षेण श्रीजयवर्धने- महोदयेन सह वार्तालापसमये १९८७ तमे वर्षे श्रीमतः राजीवगान्धिवर्यस्य हत्यायाः विफलः प्रयत्नः अभवत् । तमिळ्उग्रवादिजनाः (एल्.टी.टी.ई) तमीलुजनसमस्यायां श्री राजीवगान्धिवर्यस्य मध्ये प्रवेशं न इष्टवन्तः ।
१९९१ तमे वर्षे [[तमिळ्नाडुतमिऴ्‌नाडु]]राज्यस्य [[श्रीपेरम्बदूरु]] प्रदेशे राजकीयप्रचारसभायाम् एकेन उग्रगामि-आत्महत्यादलसदस्येन शिवरसन् इत्यनेन वेदिकायां विस्फोटः कारितः । नळिनी इति महिला मालार्पणकार्यार्थमिव आगता आत्मनः विस्फोटं कृत्वा मृता अभवत् ।
भारतदेशे एषा वार्ता अतीव दुः खदायिकाऽभवत् । भारते तथा श्रीलङ्कादेशे च उग्रगामिभिः भयोत्पादनं क्रियते स्म । शान्तिसन्धानपूर्वकं समस्यायाः परिहारं कर्तुम् इष्टवान् श्री राजीवगान्धिः दुर्मरणं प्राप्तवान् ।
श्रीराजीवगान्धिकार्याणि विचारधाराः च उत्तमाः आसन् । राष्ट्रस्य एकतां समग्रतां संरक्षितुं तथा भावैक्यतां संस्थापयितुं सद्भावनया कार्यं कर्तुं प्रेरणा दत्ताऽसीत् । अतः एव श्रीराजीवगान्धिजन्मदिनं सद्भावनादिनम् इति आचरन्ति । एषः ‘’’भारतरत्न’’’ पुरस्कारेण सम्मानितः अस्ति ।
"https://sa.wikipedia.org/wiki/राजीवगान्धिजन्मदिनम्" इत्यस्माद् प्रतिप्राप्तम्