"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः २:
<br>
<br>
[[Image:Vijayanagara.jpg|thumb|200px|right|'''महाराजः कृष्णदेवरायः''']]
 
'''कृष्णदेवरायः''' [[विजयनगर]] साम्राज्यस्य [[तुळुवा]] वंशस्य राजा आसीत्। भारतीयेतिहासे प्रख्यातं विजयनगरसाम्राज्यम् । तस्य पालकः कश्चित् सुसम्पन्नः राजा आसीत् । सः स्वपराक्रमेण बलयुक्तं शत्रुसैन्यं जित्वा अपि, पुनः शत्रौ दयागुणं दर्शयति स्म । अतः सः चक्रवर्ती उत्तमः, योग्यः परिपालकः प्रजारञ्जकश्च इति कीर्तितः आसीत् । तस्य काले हम्पिनगरस्य वीथीषु रत्नानि, वज्राणि च जूर्णानि, धान्यानि इव विक्रीण्ते स्म । धर्मस्य, ललितकलानां च उदारभावेन आश्रयं कल्पितवान् आसीत् सः रसिकः । स्वयं महाकविः सन् अपि परकवितानुरागी आसीत् सः ।
नगरे आपणेषु यथा सामान्यवणिजः धान्यस्य विक्रयणं कुर्वन्ति तथा एतद्देशीयाः वणिजः रत्नानि वज्राणि राशीकृत्य तेषां विक्रयणं कुर्वन्ति स्म । तस्य राज्ये रात्रिसमयेऽपि युवतयः आभरणानि धृत्वा विना भयम् एकाकिन्यः एव सञ्चरन्ति स्म ।
अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।
सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।[[File:Vijayanagara-empire-map.svg|thumb|'''विजयनगरसाम्राज्यस्य विस्तारः''']]
 
==वैभवोपेतयुगनिर्माता===
 
भारतीयेतिहासे कर्णाटकराज्यस्य प्रस्तावः यदा भवति तदा प्रथमतः नामद्वयं स्मर्यते । बादामि-चालुक्य-वंशीयः पुलकेशी, विजयनगरस्य श्रीकृष्णदेवरायः चेति ।
श्रीकृष्णदेवरायस्य कालः कर्णाटकस्य अत्यन्तवैभवसूचकः कालः । तदा सहस्राधिकाः भव्याः सुन्दराः देवालयाः निर्मिताः । तस्मिन् काले सहस्रशः तटाकाः निर्मिताः आसन् । जलप्रवाहॆण पूर्णाः कुल्याः क्षेत्राणि सारवन्ति कृतवत्यः आसन् । कवयः साहित्यकाराः नाटककर्तारः च राज्ञा पुरस्कृताः सन्तः साहित्यचिन्तनविनोदैः समयं यापयन्ति स्म । ऋषिगणाः विद्वज्जनाश्च हिन्दूधर्मस्य संस्कृतेः संरक्षणाधिकारं समर्थाय श्रीकृष्णदेवरायाय समर्प्य अध्यात्मिकमार्गदर्शने आत्मानं योजितवन्तः आसन् । सर्वान् जित्वा दक्षिणभारतदेशं प्रविश्य हिन्दुधर्मस्य संस्कृतेश्च नाशने उद्यताः विधर्मीयाः यवनाः श्रीकृष्णदेवरायस्य नामश्रवणमात्रेण एव भीताः भवन्ति स्म । तथा आसीत् श्रीकृष्णदेवरायः ।
 
===भूमिका===
[[Image:Vitthala temple DK.jpg|250px|thumb|right|गानस्तम्भसहितः विठ्ठलमन्दिरम्]]
 
[[Image:Vitthala temple DK.jpg|250px|thumb|right|'''गानस्तम्भसहितः विठ्ठलमन्दिरम्''']]
श्रीकृष्णदेवरायस्य सिंहासनारोहणसमये विजयनगरसाम्राज्यस्य स्थितिः कथम् आसीत् ? साळुववंशस्य प्रतिपक्षिभूते तौलुववंशे जातस्य प्रख्यात-दण्डनायकस्य नरसनायकस्य अधीनम् आसीत् तद् राज्यम् । स एव श्रीकृष्णदेवरायस्य जनकः । ज्येष्ठपत्न्याः पुत्रः नरसिंहः, द्वितीयपत्न्याः पुत्रः श्रीक्रुष्णदेवरायः इति उभौ पुत्रौ आस्तां नरसनायकस्य ।
। गच्छ्ता कालेन द्वितीयनरसिंहः अधीनराजानां नियन्त्रणे कष्टम् अनुभूतवान् ।
Line १८ ⟶ २२:
‘महामन्त्रिन् ! मम पुत्रः एव साम्राज्यं प्राप्नुयात्, अतः सोदरः श्रीकृष्णदेवरायः न जीवेत्’ इति तम् उक्तवान् राजा ।
तद् वाक्यं श्रुतवतः तस्य महामन्त्रिणः तिम्मरसोः वज्राघातः जातः इव । तिम्मरसुः, तस्य पत्नी च श्रीकृष्णदेवरायं स्वपुत्रमिव वात्सल्यातिशयेन पालयतः स्म । श्रीकृष्णदेवरायः तस्य अपत्यैः सह एव वर्धमानः आसीत् । तिम्म्ररसुम् अप्पाजी इति सम्बोधयति स्म । तावदेव न, श्राकृष्णदेवरायस्य तीक्ष्णा बुध्दिः, धैर्यसाहसमयः स्वभावः, साहित्ये कलासु च अभिरुचिः इत्यादयः गुणाः तिम्मरसुम् आनन्दपरवशं कुर्वन्ति स्म । "शक्तिमद्भ्यः शत्रुभ्यः राज्यम् अष्टवर्षीयः बालः रक्षितुं न शक्नोति, पराक्रमवान् श्रीकृष्णदेवरायस्तु तस्मिन् कार्ये समर्थः । सः महापुरुषः श्रीकृष्णदेवरायः कथं हन्तव्यः ?" इति सः चिन्तितवान् । तिम्म्ररसुः अन्ते एकं निर्णयं स्वीकृतवान् ।
"उत्तमम् । महाराज, भवतः इच्छानुसारं श्वः सूर्योदयात् पूर्वमेव श्रीकृष्णदेवरायस्य वधः भविष्यति" इति तिम्मरसुः नरसिंहरायम् उक्तवान् । [[File:Vijayanagara flag.png|thumb|'''विजयनगरसाम्राज्यस्य ध्वजः''']]
तिम्मरसुः गृहम् आगत्य सर्वं वृत्तान्तं पत्नीं, श्रीकृष्णदेवरायं च उक्तवान् । श्रीकृष्णदेवरायः "अहं राज्यं त्यक्त्वा परिव्राजको भविष्यामि" इति उक्तवान् । तिम्मरसुः तत् अनङ्गीकुर्वन् श्रीकृष्णदेवरायं गूढं चन्द्रगिरिं प्रेषितवान् । अनन्तरदिने वीरनरसिंहस्य स्मरणशक्तिः नष्टा । तिम्मरसुः अजस्य नेत्रे दर्शयित्वा ‘ते नेत्रे श्रीकृष्णदेवरायस्य एव’ इति दृढम् उक्तवान् । राजा सानन्दं मरणं प्राप्नोत् ।
 
===पट्टाभिषेकः===
 
द्वितीयवीरनरसिंहस्य मरणानन्तरं श्रीकृष्ण्देवरायेण सिंहासनम् अध्यारोढुं काऽपि समस्या न जाता । सालुवराजानां कालतः मन्त्रिपदवीं निर्वर्तयतः तिम्मरसोः दीर्घदृष्टेः, चतुरतायाः च कारणेन न केवलं कर्णाटकेन, अपि तु भारतदेशेन एव कश्चन महान् चक्रवर्ती लब्धः ।
श्रीकृष्णदेवरायस्य पट्टाभिषेकमहोत्सवः हम्पिनगरे विरुपाक्षमन्दिरे अत्यन्तं वैभवेन सम्पन्नः । विद्यारण्यः इव धार्मिकः, आध्यात्मिकविषयान् प्रबोधयन् महानुभावः साधुपुरुषः व्यासरायः राजधान्यां स्थित्वा मार्गदर्शनं करोति स्म ।
Line २७ ⟶ ३३:
तदानीं २० वर्षपूर्णः श्रीकृष्णदेवरायः यौवनेन्, उत्साहेन्, साहसेन अपि परिपूर्णताम् अलभत । एकस्मिन् दिने प्रभाते विजयनगरराजभवनस्य प्रथमसिंहद्वारे डोमंगो पेस् इति पोर्चगीस् देशीयः श्रीकृष्णदेवरायं मेलितुं निरीक्षते स्म । एकः सुन्दरः श्वेताश्वः प्रसादस्य अन्तर्भागाद् बहिः आगच्छ्न् दृष्टः । अश्वारुढस्य श्रीकृष्णदेवरायस्य द्दष्टिः तस्मिन् विदेशीये संलग्ना । झटिति ‘पेस्’ स्वस्य देशस्य सम्प्रदायानुसारं शिरः अवनमय्य नमस्कृतवान् । महाराजः पृष्टवान् ‘भवान् कः?’ इति । पेस् सन्देहेन एव स्वस्य, स्वदेशस्य च नाम उक्तवान् । ‘राजमन्दिरे मिलतु’ इति उक्त्वा अश्वम् अग्रे चालितवान् महाराजः । अश्वः अधावत् । पेस् महोदयः आश्चर्येण सह आनन्दं च प्राप्तवान् । विदेशीयैः सह अपि एतादृशः उत्तमः व्यवहारः आसीत् तस्य ।
 
===विवाहः===
 
एकदा श्रीकृष्णदवरायः एकां सुन्दरीं युवतिं दृष्टवान् । सा युवतिः ‘तिप्पसानि’ नाम्न्याः वेश्यायाः पोषणे वर्धमाना आसीत् । तस्याः नाम नागाम्बिका इति । ‘चिन्न’ इति सर्वे तां सम्बोधयन्ति स्म । राजा तां परिणेतुम् ऐच्छत् । प्रजाः चिन्नादेवीं राज्ञीरूपेण न अङ्गीकुर्युः इति जानन् तिम्मरसुः ‘चिन्नदेवीम् अपि राज्ञीं करिष्य़ामः’ इत्युक्त्वा सहनया युक्त्या च श्रीकृष्णदेवरायं समाश्वसितवान् । सेनानायकस्य वीरय्यस्य पुत्र्या तिरुमलाम्बया सह तस्य विवाहं कारितवान् ।
राज्यपालनं कुर्वन् एव कनिष्ठसोदरम् अच्युतरायं, ज्येष्ठसोदरस्य पुत्रञ्च चन्द्रगिरिं प्रति प्रेषितवान् श्रीकृष्णदेवरायः । तेन ताभ्यां द्वारा आपतिष्यमाणाः समस्याः तेन अपाकृताः । अधिकारप्राप्त्यनन्तरं प्रथमे वर्षे एव १८ प्रान्तानां मण्डलाधीशान् आहूय सत्कृत्य साम्राज्यस्य ध्येयं, स्वीयं पालनविधानञ्च विवृतवान् सः । गोवाराज्यम् आक्रान्तवद्भिः ‘पोर्चगीस्’ जनैः सह मैत्रीबन्धं वर्धितवान् । यथा सुल्तानजनाः तत्साहाय्यं न प्राप्नुवन्ति तथाविधमपि प्रयत्नं कृतवान् । सेनायाः आवश्यकानि आयुधानि, अश्वान् तेभ्यः सङ्गृहीतवान् च ।
Line ३४ ⟶ ४१:
सोदरस्य वीरनरसिंहस्य असमर्थताकारणतः केषाञ्चन शत्रुराजानः विजयनगरराज्यस्य महतीं हानिं कृतवन्तः । श्रीकृष्णदेवरायः तान् सर्वान् अपि सूक्तरीत्या अपाठयत् ।
चिक्करायः युद्धे मृतः । तस्य पुत्राय एव राज्यं प्रत्यर्पितवान् रायः । एतेन अधीनराजानां मनसि श्रीकृष्णदेवरायस्य विषये विश्वासः जातः । पेनुगोण्डाराज्यं स्वतन्त्रम् अभवत् । मन्त्रिणः कोण्डमनरसय्यस्य पुत्रः देवनरसय्यः तत्र राज्यपालनाय नियुक्तः । प्रजानां करशुल्कं न्यूनीकृतवान् श्रीकृष्ण्देवरायः । अनेकेषां देवालयानां, धर्मशालानां च निर्वहणाय भूरि क्षेत्रादिकं दत्तवान् । तेन जनानां श्रीकृष्णदेवराये गौरवम् अवर्धत ।
 
===विजययात्रा===
 
श्रीकृष्णदेवरायस्य प्रभावः दिने दिने वर्धमानः आसीत् । ततः अनेषां राज्ञां मनसि भीतिः उत्पन्ना । अहम्मदनगरस्य, गोलकोण्ड्स्य च नृपौ विजयनगरराज्यस्य सीमानम् अतिक्र्म्य युद्धं प्रारभेताम् । तौ पराजित्य कृष्णानदीम् अतिक्रम्य श्रीकृष्णदेवरायः अभ्यागमिष्यति इति, तदा प्रतापरुद्रगजपतिः विजयनगरसेनायाः कष्टं जनयिषयति इति च अन्ये राजानः चिन्तितवन्तः । तेऽपि स्वसेनानां समीकरणम् आरब्धवन्तः । श्रीकृष्णदेवरायः गूढचरेभ्यः विषयमेनं ज्ञातवान् ।
सः राजधान्याः, साम्राज्यस्य च रक्षणव्यवस्थां सम्यक् कृतवान् । ततः ३४ सहस्रसैनिकैः, अष्टशतेन गजैः उदयगिरिदुर्गम् आक्रान्तवान् । उदयगिरौ १० सहस्रं सैनिकाः, चतुश्शतम् अश्वचालकाः च आसन् । दुर्गे प्रवेशः कष्टतमः आसीत् । बहिस्तः आहारपदार्थाः स्थगिताः चेत् अन्तः स्थितानाम् बु्भुक्षया मरणं प्राप्नुयुः इति विचिन्त्य तथैव कृतम् । षण्मासेषु दुर्गः अधीनः जातः । श्रीकृष्णदेवरायः उदयगिरिदुर्गस्य विजयं स्मारयितुं तत्र देवालये स्थितां बालकृष्णमूर्तिं विजयनगरं नीतवान् । भुवनविजयनामकं राजभवनं, विजयविठ्ठल, रामस्वामि, कृष्णस्वामिनां मन्दिराणि च निर्मापितवान्, । तिरुपतिं गत्वा श्रीवेङ्कटेश्वरं त्रिंशत्सहस्रसुवर्णनाणकैः अभिषेचितवान् ।
Line ४३ ⟶ ५२:
‘भवतः, भवतः पत्नीपुत्रयोः वा क्लेशं जनयितुं चक्रवर्तिनः रायस्य इच्छा नास्ति | हिन्दुधर्मस्य, संस्कृतेः रक्षणाय सः कटिबद्धः अस्ति । तस्मिन् कार्ये भवन्तं सहचरं कर्तुं वाञ्छति । एषा एव रायस्य इच्छा । भवतः राज्यं भवानेव पालयतु' इति तिम्मरसुः उक्तवान् । गजपतिः आश्चर्येण 'किम् एतत् सत्यम् ?’ इति पृष्टवान् | ‘निश्चयेन सत्यम् । भवतः पत्नी, अपत्यञ्च सुखेन स्तः । अन्येषां वचनानि श्रुत्वा महाराजस्य विरोधी मा भवतु भवान्’ इति तिम्मरसुः तं समाहितवान् । गजपतिः प्रसन्नः जातः । कृष्णानदी द्वयोः राज्ययोः सीमारुपेण् अङ्गीकृता । सन्तुष्टः गजपतिः वीरेण कृष्णदेवरायेण सह मैत्रीं वर्धयितुं स्वपुत्रीं जगन्मोहिनीं श्रीकृष्णदेवरायस्य कृते दत्त्वा विवाहं कारितवान् ।
 
===समर्थः चक्रवर्ती===
 
श्रीकृष्णदेवरायस्य शासने राज्यं सुभिक्षम् आसीत् । देवालयाः, तटाकाः, कुल्याः च निर्मिताः । विरुपाक्षदेवालयस्य कल्याणमण्डपं, महागोपुरं च निर्मितम् । चक्रवर्तिनः अभिरुचिं ज्ञात्वा अधीनराजाः, दण्डनायकाः च स्वस्य स्वस्य प्रान्तेषु देवालयनिर्माणं, जीर्णमन्दिरोद्धरणं, तटाकनिर्माणम् इत्यादिकं समारब्धवन्तः । पटेल्, पट्वारीप्रभृतयः विविधाः ग्रामनायकाः अपि ग्रामजनानाम् अपेक्षितं साहाय्यं कृतवन्तः । श्रीकृष्णदेवरायः स्वयं स्वमातुः स्मृत्यर्थं नागलापुरग्रामस्य (इदानीं होसपेटे) अभिवृद्धिं कारितवान् । ‘जीवाडीलापोण्टी’ नामकस्य पोर्चुगीस-तन्त्रज्ञस्य सहकारेण तुङ्गभद्रानद्याः बन्धं निर्मापितवान् । बसवकुल्या, आपातकुल्या इत्यादयः तदद्वारा एव् निर्मिताः ।
प्रजानां सङ्घटनं कर्तुं धर्मः एव साधनम् इति श्रीकृष्णदेवरायः विश्वसिति स्म । अतः धार्मिकसंस्थानां रक्ष्णाय, धर्मशालानां निर्वहणाय च अधिकाधिकं दानं कर्तुं जनान् प्रेरितवान् । देशे सर्वत्र अटित्वा जनेषु धार्मिकजागरणं कृतवान् ।
Line ५० ⟶ ६०:
साहित्यशास्त्रे, सङ्गीतशास्त्रे, काव्येषु, कलासु च राज्ञः अभिरुचिः आसीत् इत्यतः तेषु अपि क्षेत्रेषु अभिवृद्धिः सम्पन्नः । साधितस्य विजयस्य स्मृतिरूपेण विजयदशमी नवरात्रि-उत्सवेषु विशेषसभाः आयोजितवान् श्रीकृष्णदेवरायः । तदवसरे सर्वेभ्यः प्रान्तेभ्य अधीनराजानः, शिरोधराः (सरदाराः), वीराः, मल्लाः, कलाकाराः, पण्डिताः आगत्य एकत्र सम्मिलन्ति स्म । स्वीयं कौशलं प्रदर्श्य उपायनानि प्राप्नुवन्ति स्म ।
 
===पण्डितसभाः===
 
श्रीकृष्णदेवरायस्य आस्थाने विविधभाषाभाषीयाः अनेके कवयः पण्डिताः च आसन् । व्यासरायेण स्थापितं सरस्वतीविद्यापीठम् इदानीं विश्वविद्यालयत्वेन मान्यतां प्राप्य विविधशास्त्राणाम् अध्ययनकेन्द्रं जातम् आसीत् । दूरदेशेभ्यः छात्राणां, पण्डितानाञ्च तत्र आगमनम् भवति स्म । राजास्थाने व्यासरायस्य अध्यक्षतायां पण्डितानां सम्माननं, गौरवसम्भावनञ्च भवति स्म । देशे सर्वत्र अनेकेषां ग्रर्न्थानां भाष्यटीकाटिप्पण्यः कारिताः । पण्डितैः, कविभिः च काव्यानि, नाटकानि रचितानि, अनेके प्रबन्धाश्च लेखिताः रायेण ।
कलिङ्गराज्यविजयस्य अनन्तरं यात्रातः प्रत्यागमनस्मये गजपतेः आस्थानतः लोल्ललक्ष्मीधर-दिवाकर नामकौ द्वौ पण्डितौ कृष्णदेवरायेण सह आगतवन्तौ । महान् संगीतविद्वान् लक्ष्मीनारायणः श्रीकृष्णदेवरायस्य गुरुः । प्रधानमन्त्री तिम्मरसुः स्वयं संस्कृते महान् पण्डितः । तस्य सोदरः नडिन्दलः महामन्त्री अपि संस्कृतग्रन्थान् रचितवान् । तेलुगुविद्वत्सु अल्लसानि पेद्दनः, नन्दितिम्मनः, धूर्जटिः, रामभद्र्कविः, पिङ्गलिसूरनः, हास्यकविः तेनालिरामकृष्णः, ताल्लपाक पेदतिरुमलय्यः चिन्तलपूडि मल्लकविः इत्यादयः प्रमुखाः । कन्नडकविषु तिम्मण्णः, अभिनववादी विद्यानाथः गुब्बि मल्लण्णः, कुमारवाल्मीकिः, चाटु विट्ठलनाथः च प्रमुखाः । महातपस्वी वेदान्ती व्यासरायः, पुरन्दरदासः, कनकदासः इत्यादयः श्रीकृष्णदेवरायस्य साहित्याभिमानेन प्रभाविताः आसन् । श्रीकृष्णदेवरायस्य साम्राज्यविस्तरणं यथा वैविध्यभरितम्, राजास्थाने स्थितानां कवीनां, पण्डितानां, भाषाः अपि तथैव वैविध्यपूर्णाः । तमिलकविः कुमारसरस्वती, मङ्गलपुरुषज्ञानप्रकाशः, हरिहरदासः तत्त्वकविः इत्यादयः सर्वे रायस्य आस्थाने सम्मानिताः ।
श्रीकृष्णदेवरायः स्वयं कविः । सः पण्डितान् तर्पयतः ग्रन्थानपि रचितवान्। सुप्रसिद्धम्’आमुक्तमाल्यदा (विष्णुचित्तीयम्)’ इति तेलुगुकाव्यं श्रीकृष्णदेवरायस्य राजनीतिं कविताशक्तिं च ज्ञापयति । मदालसाचरितम्, रसमञ्जरी इत्यादिकाव्यानि श्रीकृष्णदेवरायः रचितवान् । जाम्बवतीकल्याणम् इति संस्कृतनाटकं स्वयं विरच्य अभिनीतवान् । श्रीकृष्णदेवरायस्य राज्ञी जगन्मोहिनीदेवी तुक्क्पञ्चकम् नाम्ना कानिचन पद्यानि लिखितवती ।
 
===शिबिकाम् ऊढवान् राजा===
 
विजयनगरराजमार्गे एकस्मिन् दिने सहस्रशः जनाः सङ्ग्ताः । आश्चर्यकरं दृश्यं तत्राऽसीत् । स्वर्णतन्त्रीभिः अलङ्कृता शिबिका । तस्यां कृशः एकः ब्राह्मणः उपविष्टः । श्रीकृष्णदेवरायः स्वयं तां शिबिकाम् ऊढवान् ।
जनाः नेत्राणि विस्फार्य पश्यन्ति स्म । कविः अल्लसानि पेद्द्नः शिबिकायाम् उपविष्टः । तेन किखितं ‘मनुचरित्रम्’ इति काव्यं सञ्चर्च्य पण्डिताः सर्वे तत् श्रेष्ठकाव्यम् इति प्रकटितवन्तः । राजा ‘गण्डपेण्डेरम्’ इति सुवर्णकटकं तस्य पादे धारयित्वा ‘आन्ध्र्कविपितामहः’ इति पदेन सम्मानितवान् । अनन्तरं शोभायात्रा अभवत् । राजा स्वयं शिबिकां स्वस्य भुजेन अवहत् ।
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्