"शिक्षकदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

राधाकृष्नन् जयन्ती को अनुप्रेषित
(भेदः नास्ति)

०६:४०, १५ अक्टोबर् २०११ इत्यस्य संस्करणं

अत्र पुनर्निर्देशितम्:

सप्टम्बर्मासस्य पञ्चमदिने भारतदेशे सर्वत्र शिक्षकदिनं राष्ट्रियपर्वरुपेण प्रचलति । तस्य कारणं श्री एस् राधाकृष्ण्न् महोदयः । श्री एस् राधाकृष्णन् महोदयः श्रेष्ठः शिक्षकः, उपकुलपतिः, उपराष्ट्रपतिः, भारतदेशस्य राष्ट्रपतिः च आसीत् । एस् राधाकृष्णन् महोदयः शिक्षकवृत्तिम् अतीव इष्टवान् । अतः एतस्य जन्मदिनं शिक्षकदिनम् इति आचरन्ति । सर्वपल्ली राधाकृष्णन् अनेकपदेषु स्थित्वा कार्यं कृतवान् किन्तु प्राध्यापकवृत्तिम् अतीव इच्छति स्म । एतेनैव अध्यापनेन अत्यन्तं प्रसन्नः आसीत् । अतः भारतीयाः यदा अस्य जन्मोत्सवम् आचरितुं प्रार्थितवन्तः तदा स्वजन्मदिनं शिक्षकदिनरुपेण आचरितुम् उक्तवान् । शिक्षकाः सर्वजनानां जीवने अनेकरीत्या उपकारं कुर्वन्ति। गुरुः ब्रह्मविष्णुमहेश्वररुपेण आराधितः अस्ति । गुरोः स्थानं मातापित्रोरपि अधिकोन्नतम् अस्ति । भारतस्य भविष्यं शालासु वर्गप्रकोष्ठे रुपितं भवति इत्युक्तिः जीवने शिक्षणस्य महत्वं सूचयति ‘उत्तमप्रजानां निर्माणं शिक्षकाः एव कर्तुं समर्थाः भवन्ति ’। अतः एव श्रेष्ठशिक्षकस्य स्मरणेन भारते सर्वे शिक्षकाः पूजिताः भवन्ति । शिक्षकदिवसकार्यक्रमेषु शिक्षकाणां सेवा विद्यार्थिनां समस्याः, शिक्षणव्यवस्थायाः लोपदोषाः, शिक्षकाणां समाजे स्थानमानम् इत्यादि विषयाः जनानां चिन्तनार्हाः भवन्ति । उत्तमकार्यं कृतवतां शिक्षकाणां राष्टे श्रेष्ठशिक्षकप्रशस्तिः राज्ये श्रेष्ठशिक्षकप्रशस्तिः तथा जिल्लासु च प्रशस्तिः च दीयन्ते । शिक्षकः न केवलं व्यक्तिः न अपि तु अपूर्वा शक्तिः इति सामान्याः जनाः अपि वदन्ति । एस् राधाकृष्णन् भारतीयानां सर्वेषाम् उत्तमशिक्षणम् आवश्यकम् । शिक्षणक्षेत्रे तरतमभावः न वर्धनीयः ।विद्यार्थिनां शिक्षणम् आतङ्ककारि न भवतु इति उक्तवान् । एस् राधाकृष्णन् महोदयः १७ एप्रिल १९७५ तमे वर्षे दिवङ्गतः अभवत् । भारतीयशिक्षकाणां कश्चन आदर्शपुरुषः राजनीतिचतुराणां मार्गदर्शकः धर्मप्रियानां श्रेष्ठः दार्शनिकः इति विश्वे ख्यातः अस्ति । शिक्षकदिवसस्य आचरणम् एकस्य व्यक्तेः जन्मोत्सवः न , किन्तु सर्वभारतीयशिक्षकाणां जन्मोत्सवः इव आत्मावलोकनार्हः दिवसः। समग्रविद्यार्थिनां शारीररकमानासिकबौद्धिकविकासकार्यप्रोत्साहकः पर्वविशेषः अस्ति ।

सर्वपल्ली राधाकृष्णन् (१८८८-१९७५) भारतवर्षस्य विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः भारतस्य द्वितीयः राष्ट्रपति: आसीत्। सः भारतीयदर्शनानां पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डित: आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीया: तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।

जननं, बाल्यं, शिक्षणञ्च

सर्वपल्ली राधाकृष्णन् महोदयः दक्षिणभारतस्य तमिळनाडुराज्यस्य तिरुत्तणीनामके मण्डले १८८८ तमस्य वर्षस्य सेप्टेम्बर्मासस्य पञ्चमे दिनाङ्के जनिम् अलभत । सर्वपल्ली इति तस्य कुलस्य नाम इति प्रतीयते। राधाकृष्णन् इति पितृभ्यां प्रेम्णा नामकरणं कृतम् आसीत्। तस्य पिता सर्वपल्ली वीरस्वामी, क्षेत्राधिपते: सकाशे दैनिकवेतनाश्रित: कर्मकरो भूत्वा कार्यं कुर्वन् पुत्रस्य सर्वविधश्रेयसे कारणीभूत: अभवत् । यदा पिता दैनिकवेतनम् एव अवलम्ब्य जीवन् कुटुम्बभरणार्थं अतिक्लेशम् अनुभवति स्म तदा एव अयं बाल: राधाकृष्ण: पठने उत्सुक: आसीत् । शिष्यवेतनेनैव प्राथमिकं तथा प्रौढशिक्षणं समाप्य मड्रास्(इदानीन्तनं चेन्नै) क्रिश्चियन् कलाशालायां तत्त्वज्ञानविषयम् आश्रित्य पदवीं स्नातकोत्तरपदवीं च सम्पादितवान् । स्नातकोत्तरपदव्यां तेन मण्डित: ”दि एथिक्स् आफ् वेदान्त” प्रबन्ध: तस्य जीवनदिशम् एव पर्यवर्तयत् । विंशतिवर्षीयस्य युवकस्य प्रतिभां, विभिन्नान् सिद्धांतान्, ज्ञानं, वेदान्तविचारान् च समीक्ष्य 'भविष्ये एषः श्रेष्ठस्थानं प्राप्स्यति' इति तेषां कलाशालाया: अध्यापका: परस्परं वदन्ति स्म ।

वृत्तिजीवनम्

वेल्लूरुमध्ये वसनावसरे षोडशवर्षीयः युवा सः शिवकामम्मानामिकां कन्याम् ऊढ्वान्। १९०९ तमे वत्सरे मद्रास्नगरे विद्यमानायां प्रेसिडेन्सी-कलाशालायां साहाय्यकोपन्यासकः सन् अभीप्सितां वृत्तिम् आरभत । तेन संस्‍कृतभाषाया: हिन्‍दीभाषाया: च अध्‍ययनं कृतम्‌ । भारतस्‍य प्राचीनासु भाषासु तस्य अभिरुचि: आसीत्‌ । भारतस्य सनातनहिन्दूधर्मस्य सारं, वेदोपनिषदः, जैनतत्त्वज्ञानं, शङ्कर -रामानुज- मध्व-प्लेटो-प्लाटिनेस्-कान्त्-ब्र्याड्ले इति अनेकेषां महनीयानां तत्त्वं गाढतया अधीतवान् सः । सतताध्ययनेन कठिनपरिश्रमेण च क्रमश: सोपानानि आरोहन् अग्रे सरन् १९१८ तमे वर्षे मैसूरुविश्वविद्यालयस्य तत्त्वज्ञानविभागस्य उपन्यासकत्वेन चितः अभवत्। १९३१ तमे वर्षॆ आन्ध्रविश्वविद्यालयस्य उपकुलपतित्वेन चित: राधाकृष्णन् पञ्चवर्षाणि यावत् स्वसेवावधौ आत्मानम् उत्तमप्रगतिनिष्ठः इति निरूपयन् तस्य विश्वविद्यालयस्य परिवर्तने प्रधानपात्रम् अवहत्। १९३९ तमे वर्षे बनारस्-विश्वविद्यालयस्य कुलपतित्वेन चित: अभवत् । तत्रापि स्वानुभवस्य प्राबल्येन विश्वविद्यालयस्य सर्वविधाभिवृद्धौ परिश्रमं कृतवन्तं राधाकृष्णन्-महाभागं सर्वकारः १९४८ तमे वर्षे विश्वविद्यालयशिक्षणायोगस्य मुख्यस्थरूपेण नियुक्तिम् अकरोत् । १९४९ तमे वर्षे सोवियत्-रशिया-देशस्य राजदूतत्त्वेन नियुक्त: रधाकृष्णन् साल्टिन् सदृशमेधाविभि: समं स्वव्यक्तित्वम् अभ्यवर्धयत्।

राजनैतिकक्षेत्रे प्रवेशः

१९५२ तमे वर्षे शिक्षक: एषः ऐदम्प्राथम्येन भारतस्य उपराष्ठ्रपतित्वेन नियुक्त:। राधाकृष्णन् राज्यसभायां संस्कृतश्लोकानाम् उद्धरणेन संसत्सदस्यान् आत्माभिमुखान् कर्तुं समर्थः भवति स्म। राधाकृष्णन्-महाभागस्य अपारसेवां परिगणय्य भारतसर्वकार: १९५४ तमे वर्षे प्रतिष्ठितं भारतरत्नोपाधिं तस्मै प्रदाय तं सभाजयामास। अस्मिन् एव सन्दर्भे अमेरिकादेशे राधाकृष्णम् उद्दिश्य लिखितस्य ”फिलासफि आफ् डा सर्वपल्ली राधाकृष्णन्”इति पुस्तकस्य विमोचनमभवत् । डा राजेन्द्रप्रसादस्य पश्चात् १९६२ तमे वर्षे भारतस्य द्वितीयराष्ठ्रपतित्वेन चित: राधाकृष्णन् स्वाधिकारावधौ देशस्य सर्वविधोन्नत्यै श्रमं व्यदधात् । अन्ताराष्ट्रियस्तरे अपि भारतस्य सम्बन्धं संवर्धयन् देशस्य आन्तरिककलहविषये अधिकं व्यवधानम् अयच्छन् 'देशस्य प्रगते: प्रवर्तकः' आसीत् इत्यत्र नास्ति सन्दॆहः। भारतीयशिक्षणक्षेत्राय सार्थकपरिधिंप्रदानेन शिक्षाक्षेत्रे तत्त्वज्ञाने देशस्य अभिवृद्ध्यर्थम् आत्मानं पूर्णतया समर्पयत् सः। भारतीयानां सवेर्षां चित्ते सर्वदा स्थानम् अवाप्नुवत्। एषः महान् शिक्षणतज्ञः अपि आसीत्। अत: एतस्य जन्मदिनं प्रतिवर्षं सप्टम्बरमासस्य पञ्चमे दिनाङ्के शिक्षकाणां दिनम् इति आचर्यते ।

तस्य अनुपमं योगदानम्

देश-विदेशानां पत्रिकासु तेन लिखिताः स्वाध्ययनभूयिष्ठाः बहवः विचाराः प्रकशिताः अभवन् । "दि फिलासफि आफ् रवीन्द्रनाथ ठ्यागोर्" इत्येतत् तेन लिखितं प्रथमं पुस्तकम् । एषः तेलगुभाषया राधाकृष्णय्य इति हस्ताङ्कनं करोति स्म । मैसूरुनगरे एतस्य नाम्ना कश्चन मार्ग: वर्तते । भारतस्य पत्रिकोद्यमक्षेत्रे प्रकाशमानः एषः अग्रे "जिनीन् मेनिफेस्टेषन् आफ् इण्डियन् स्पिरिट् एवं रीजन् आफ् इण्डियन् काण्टेम्पररि फिलासफि" इति पुस्तकम् अलिखत् । स्वपाण्डित्यप्रभावेण देशविदेशेष्वपि प्रख्यातिमलभत। एतस्य तत्त्वज्ञानस्य प्रभया आकृष्ट: आक्सफर्ड् विश्वविद्यालय: 'धर्म: तथा नीतिशास्त्रम्'इति विषये उपन्यासं प्रदातुं तं समाह्वयत् । तदा स्वविचारं मण्डयन् एषः सप्तसागरमतीत्य अपि भारतस्य किर्तिध्वजमुदतोलयत्। भारतीयानां स्वातन्त्र्यार्थमपि आन्दोलनं कुर्वन् भारतीयसनातनधर्मविषये तथा तत्त्वज्ञानस्य विषये तान् उदबोधयन् तान् पर्यवर्तयत्। १९६७ तमे वर्षे राष्ट्र्पतिस्थानस्य अधिकारावधे: परिसमाप्त्यनन्तरं निवृत्तिजीवनं मड्रासनगरस्थे मैलापुरे विद्यमाने स्वनिवासे यापयन् आसीत् सः । १९७५ तमवर्षस्य एप्रिल्- मासस्य १९ दिनाङ्के सः इहलोकयात्रां समाप्य परलोकं प्रातिष्ठत ।

"https://sa.wikipedia.org/w/index.php?title=शिक्षकदिनम्_(भारतम्)&oldid=137420" इत्यस्माद् प्रतिप्राप्तम्