"केदारनाथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kedarnath 2.jpg|left|thumb|'''केदारनथमन्दिरम्''']]द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति केदारेश्वरमन्दिरम् । एतदेकं प्राचीनं शिवक्षेत्रम् । केदारनाथः यत्र अस्ति हिमालयस्य तं भागं “रुद्रहिमालयः” इति वदन्ति । अयं पर्वतः “सुमेरुपर्वतः” “पञ्चपर्वतः” इत्यपि उच्यते । अत्र रुद्रहिमालयः, विष्णुपुरी, ब्रह्मपुरी, उद्गरिकान्ता, स्वर्गारोहणम् इति पञ्च पर्वताः सन्ति । अतः एव अस्य नाम “पञ्चपर्वतः” इति । [[गन्धमादनः]] [[रुद्रहिमालयः|रुद्रहिमालयस्य]] कश्चन भागः । स्वर्गारोहणशिखरस्य आरोहणावसरे [[धर्मराजः|धर्मराजस्य]] अनुजाः शरीरत्यागम् अकुर्वन् । अस्य तीर्थक्षेत्रस्य परिसरः वर्णनातीतः । अनन्तात्मनः नित्योपासकानि इव स्थितानि तुषारवेषधारीणि गगनस्पर्शिशिखराणि । अट्टहासेन उत्थाय विस्तारम् अपि प्राप्य पुनः कालगर्भे लीनानाम् असंख्यानां चक्राधिपत्यानां मूकसाक्षी अयं पर्वतः । अस्य पर्वतस्य नीरवत्वं निर्जनत्वं च भवसागरे दुःखितानाम् औषधम् इव अस्ति । कुत्रापि अल्पत्वम् इति नास्ति । सर्वत्र भूमवादः एव ।
[[चित्रम्:Kedarnath Temple.jpg|thumb|300px|left|''' केदारेश्वरमन्दिरस्य पार्श्वदृश्यम्''']]
[[File:KedarRange.jpg|thumb|'''केदारपर्वतः''']]
अयं पर्वतः २३,००० पादमितम् उन्नतः अस्ति । मन्दिरं ११,७८० पादमितम् उन्नते स्थाने अस्ति । केदारं प्रति गमनमार्गे अनेकानि रम्यदृश्यानि सन्ति । मार्गस्य उभयोः पार्श्वयोः भीमाकारकः हिमराशिः महागजः इव पतितः भवति । नदी [[मन्दाकिनी]] हिमस्य अधः एव शतद्विश्तपादं यावत् प्रवह्य उपरि आगच्छति । गिरिभ्यः अनेकाः झर्यः प्रवहन्ति । काश्चन झर्यः मन्दाकिन्याम् अन्तर्भवन्ति । काश्चन भीमाकारिकाः झर्यः शताधिकपादं यावत् एकधा एव कूर्दन्ति । जलस्य प्रमाणं वेगं च पश्यामः चेत् [[शिवः|शिवस्य]] ताण्डवनृत्यस्य स्मरणं भवति ।
 
[[चित्रम्:Kedarnath Temple.jpg|thumb|300px|left|हिमालये विद्यमानं केदारेश्वरमन्दिरम्]]
 
हिमाच्छादितशिखराणां मध्ये विराजमानं केदारेश्वरमन्दिरं दृष्टवत्सु भक्तेषु विद्युत्सञ्चारः भवति । तावत्पर्यन्तम् आगमने जातः श्रमः विस्मर्यते एव । अस्य केदारेश्वरमन्दिरस्य गर्भगृहे महत् शिवलिङ्गम् अस्ति । ४ पादमिता रूक्षा महाशिला एव अत्रत्यं लिङ्गम् । अर्धगोलाकारकस्य अस्य लिङ्गस्य वैशाल्यम् एव ६ पादमितम् । अत्र शिल्पिभिः किमपि कार्यं न कृतम् । अत्र भक्ताः भगवता सह हृदयभाषया सम्भाषन्ते । [[गङ्गा|गङ्गायाः]] [[यमुना|यमुनायाः]] च उदकम् आनीय शिवलिङ्गस्य अभिषेकं कारयन्ति । शिवलिङ्गम् आलिङ्ग्य सन्तोषम् अनुभवन्ति, अश्रूणि स्रावयन्ति, नवनीतं लेपयन्ति च । अन्तः अखण्डज्योतिः ज्वलति । तत्र श्री[[कृष्णः|कृषणस्य]] शिवस्य [[पार्वती|पार्वत्याः]] च विग्रहाः सन्ति । मन्दिरस्य बहिर्भागे ईशान्यकुण्डम्, अमृतकुण्डम्, हंसकुण्डं, रेतसकुण्डम् इत्याख्यानि तीर्थानि सन्ति ।
[[File:KedarRange.jpg|thumb|'''केदारपर्वतः''']]
 
अनादिकालादपि एतत् क्षेत्रं यात्रिकान् आकर्षति । [[महाभारतम्|महाभारतस्य]] अनुगुणं [[पाण्डवाः]] अत्र बहुवारम् आगताः आसन् । [[अर्जुनः]] अत्रैव तपः आचर्य पाशुपतास्त्रं प्राप्तवान् । अर्जुनस्य पुनरागमने विलम्बः जातः इति कारणात् तम् अन्विषन्तः अन्ये अपि पाण्डवाः अत्र आगताः । अत्रैव [[दौपदी|द्रौपदी]] सौगन्धिकापुष्पस्य सुगन्धेन आकृष्टा अभवत् । पण्डवानाम् अन्तिमं प्रस्थानम् अपि अत्रैव अभवत् । [[शङ्कराचार्यः|शङ्करभगवत्पादानां]] निर्वाणम् अभवत् अस्मिन् क्षेत्रे एव । केदारेश्वरमन्दिरात् पर्लाङ्ग् द्वयस्य दूरे अस्ति तस्य समाधिः ।
 
"https://sa.wikipedia.org/wiki/केदारनाथः" इत्यस्माद् प्रतिप्राप्तम्