"गान्धिजयन्ती" इत्यस्य संस्करणे भेदः

श्रीमोहनदासकरमचन्दगान्धिमहोदयः [[भारतम्|भारत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १७:
==स्वातन्त्र्यान्दोलनस्य नेतृत्वम्==
भारतदेशे काङ्ग्रेससंस्था १८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धिः काङ्ग्रेससंस्थायाम् प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्।
अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः १९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रीरुपेण श्रीजवाहरलालनेहरुः अधिकारं स्वीकृतवान् । महात्मा गान्धिः अधिकारं न स्वीकृतवान् ।
"https://sa.wikipedia.org/wiki/गान्धिजयन्ती" इत्यस्माद् प्रतिप्राप्तम्