"काव्यविभागाः" इत्यस्य संस्करणे भेदः

काव्यविभाग: काव्यलक्षणे ज्ञाते सति काव्यस्य ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु)No edit summary
पङ्क्तिः १:
 
काव्यविभाग:
काव्यलक्षणे ज्ञाते सति काव्यस्य विभाग: कथं भवतीति जिज्ञासाअत्र समुदेतिउच्यन्ते
 
कस्मिंश्चित् शब्दे श्रुते सति कस्यचित् अर्थस्य प्रतीति: भवति । स चार्थ: वाच्य: लक्ष्य: व्यङ्ग्यश्चेति त्रिविध: । तत्प्रतिपादक: शब्दोऽपि क्रमेण वाचक: लक्षक: व्यञ्जकश्चेति ज्ञेयम् । ‘अभिधापुच्छभूता लक्षणा’ इत्युक्त्यनुसारेण लक्षणा अभिधातो नातीव भिद्यते । तथा च काव्ये वाच्य: व्यङ्ग्यश्चेति द्वावर्थौ भवत इति वक्तुं शक्यते । केषुचित् वाक्येषु केवलं वाच्योऽर्थ: भवति, केषुचिच्च उभयविधोऽपि । परं तु कुत्रचिदपि केवलं व्यङ्ग्यस्यार्थस्य सद्भाव इत्ययं प्रभेदो न सम्भवति, यतो व्यङ्ग्यस्यार्थस्य प्रतीते: पूर्वं वाच्योऽर्थ: अवश्यं भवेत् । एवं च केवलं वाच्यस्यार्थस्य सद्भाव इति कश्चन प्रभेद: । वाच्यव्यङ्ग्ययोरुभयोरपि अर्थयो: सद्भाव इत्यपर: प्रभेद: ।
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्