"काव्यविभागाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
अयं प्रभेद: तत्रैव सम्भवति यत्र वाच्यव्यङ्ग्यौ उभावपि अर्थौ भवत: । अस्य प्रभेदस्य नामश्रवणेनैव ज्ञायते यत् अत्र व्यङ्ग्योऽर्थ: गुणीभूतो भवतीति । गुणीभूत इत्यस्य गौण: अप्रधान इत्यर्थ: । तल्लक्षणं तावत् काव्यप्रकाशे मम्मटेन एवं निरूपितम् –
 
:”अतादृशि''अतादृशि गुणूभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्”
अत्र अतादृशीत्यस्य वाच्यात् अनतिशायिनीत्यर्थ: । एवं च व्यङ्ग्ये अर्थे वाच्यात् अप्रधाने सति गुणीभूतव्यङ्ग्यं काव्यमिति कथ्यते । मध्यमं काव्यम् इति तस्यैव नामान्तरम् । प्राचीना: गुणीभूतव्यङ्ग्ये काव्ये अष्ठौ प्रभेदान् अङ्गीकुर्वन्ति । तदुक्तं मम्मटेन काव्यप्रकाशे –
पङ्क्तिः ५२:
: तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिता: ॥
अत्र अपराङ्गव्यङ्ग्याख्य: गुणीभूतव्यङ्ग्यप्रभेद: अस्ति । अपराङ्गव्यङ्ग्यमित्यस्य अयमर्थ: यत् अपरस्य रसादे: वाच्यस्य वा वाक्यार्थीभूतस्य अङ्गं रसादि इति । अत्र रसादिपदेन रसभावतदाभासादि रसाद्यष्ठकं ग्राह्यम् । पूर्वोक्ते श्लोूकेश्लोके वक्तृनिष्ठो भूविषयको रतिभावो व्यङ्ग्य: । स च राजविषयकरतिभावस्य अङ्गं वर्तते इति भूविषयकरतिभावस्य अपराङ्गव्यङ्ग्यत्वम् उपपद्यते ।
 
==चित्रकाव्यम् ==
 
चित्रकाव्यस्य अधमकाव्यमिति नामान्तरम् । मम्मटेन काव्यप्रकाशे तल्लक्षणम् इत्थमभिहितं वर्तते- ‘शब्दचित्रमर्थचित्रम्'शब्दचित्रमर्थचित्रम् अव्यङ्ग्यमवरं स्मृतम्’।स्मृतम्'।
चित्रमित्यस्य गुणालङ्कारसहितमित्यर्थ: । यत्र केवलं शब्दे वाच्ये वाथेर् चमत्कारो भवति व्यङ्ग्ये त्वथेर् नैव तत्रायं तृतीय: प्रभेद: सम्भवति । रूपकादिषु उपमाया व्यङ्ग्यत्वे सम्भवत्यपि तस्य क्षुद्रत्वात् परिगणनं न क्रियते । शब्दचित्रस्योदाहरणं यथा –
 
: '''स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-'''
: '''मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाय व: ।'''
: '''भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-'''
: '''द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥'''
 
अत्र शब्दविन्यासे एव चमत्कारो वर्तते । गङ्गानदीवर्णनपरके अस्मिन् श्लोके अनुप्रासाख्य: अलङ्कारो वर्तते । अर्थचित्रस्योदाहरणं यथा –
 
:'''वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।'''
:'''जगत: पितरौ वन्दे पार्वतीपरमेश्वरौ ॥'''
अस्मिन् पद्ये अर्थवैचित्र्यं दृश्यते । ‘वागर्थाविव सम्पृक्तौ’ इत्यत्रार्थ: उपमालङ्काररूपो वर्तते ।
: स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
: मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाय व: ।
रसगङ्गाधरकारो जगन्नाथ ईषद्विलक्षणया रीत्या काव्यविभागं करोति । तन्मतानुसारेण काव्यम् उत्तमोत्तमम्, उत्तमम्, मध्यमम्, अधमं चेति चतुर्धा विभज्यते । उक्तं च रसगङ्गाधरे – 'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।' इति ।
: भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
: द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥
एषु चतुर्षु प्रभेदेषु प्रथम: प्रभेद: उत्तमोत्तमकाव्यम् । तल्लक्षणं यथा – 'शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्त: तदाद्यम् ।'
यत्र शब्द: अर्थश्च गुणीभूत: सन् चमत्कारपूर्णमर्थं अभिव्यङ्क्त: तत्रायं प्रभेद: सम्भवति । तदुदाहरणं यथा –
:'''शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।'''
:'''दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥'''
आत्रालम्बनं नायक:, समीपशयनेन आक्षिप्त: रहस्यस्थानादि: उद्दीपनम्, ईषन्मुकुलितनेत्रनिरीक्षणम् अनुभाव:, त्रपौत्सुक्यादिश्च व्यभिचारी । एतेषां संयोगेन नायकविषयिका नायिकानिष्ठा रति: अभिव्यज्यते ।
 
उत्तमकाव्यस्य लक्षणम् एवं वर्तते –' यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद् द्वितीयम् ।' इति। उदाहरणं यथा –
:राघवविरहज्वालासन्तापितसह्यशैलशिखरेषु ।'''
:शिशिरे सुखं शयाना: कपय: कुप्यन्ति पवनतनयाय ॥'''
रामचन्द्रस्य विरहवह्निना सह्यपर्वत: सन्तापितो वर्तते । तस्मात् शिशिरेऽपि काले कपय: सुखं शयाना आसन् । परं तु ते कपय आञ्जनेयय कुप्यन्तीति वाच्योऽर्थ: । विरहज्वालावृत: श्रीरामचन्द्र: आञ्जनेयसमानीतया जानकीकुशलवार्तया इदानीं शिशिरीकृत: । एवं तस्य शिशिरीकरणे आञ्जनेय एव कारणम् । शिशिरकाले अस्माकं शीतबाधाया निवर्तक: रामनिष्ठो यो विरहाग्नि: इदानीं तस्य शमनमेतेन कृतमिति कपय आञ्जनेयाय कुप्यन्तीति व्यङ्ग्योऽर्थ: । स च व्यङ्ग्य: कोपोपादकतया गुणीभूतोऽपि चमत्कारकारणं वर्तते । तस्मादिदम् उत्तमकाव्यस्य उदाहरणं भवति ।
मध्यमकाव्यस्य लक्षणं तावदिदम् –
यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कार: तत्तृतीयम् । इति ।
यत्र व्यङ्ग्यचमत्कारो वाच्यचमत्कारस्य जठरे निलीन: सन् स्पष्ठतया अनुभवगोचरो न भवत्रि तत्रायं तृतीय: प्रभेद: सम्भवति । तदुदाहरणं यथा – तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ठहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी । इति ।
अत्र उत्प्रेक्षालङ्कारो वर्तते । स एव चमत्कारहेतु: । गङ्गाया: श्वेतत्वम्, मैनाकस्य पातालतलस्पर्शित्वम् इत्यादे: व्यङ्ग्यस्य सद्भावेऽपि स व्यङ्ग्य: वाच्ये उत्प्रेक्षालङ्कारे निलीनो भवति । तस्मादिदं मध्यमकाव्यस्य उदाहरणम् ।
अधमकाव्यस्य लक्षणं तावदिदम् –
यत्रार्थचमत्कृत्य्पस्कृता शब्दचमत्कृति: प्रधानं तदधमं चतुर्थम् । इति ।
यत्रार्थचमत्कारेण पोषित: शब्दचमत्कार: प्रधानो भवति तत्र चतुर्थ: प्रभेद: सम्भवति । तदुदाहरणं यथा
:मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे ।
:गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नम: ॥
अस्मिन् पद्ये विष्णुपक्षीय: शिवपक्षीयश्चेति द्वावर्थौ स्त: । अत्रानुप्रासप्रयोज्य: शब्दचमत्कार एव प्रधानतया भासते । तस्मादिदम् अधमकाव्यस्य उदाहरणम् ।
 
एवं काव्यविभागे विषये प्रधानतया मतद्वयं वर्तते । प्रथमं मतं मम्मटादीनाम्, द्वितीयं च जगन्नाथादीनामिति मन्तव्यम् ।
 
काव्यं प्रकारान्तरेणापि विभज्यते । तदुक्तम् दर्पणकारेण – ‘दृश्यश्रव्यत्वभेदेन पुन: काव्यं द्विधा मतम्’ इति । एवं काव्यं दृश्यं श्रव्यं चेत्यपि देधा विभज्यते । दृश्ये रूपकम् उपरूपकं चेति द्वैविध्यं वर्तते । तयोराद्यं दशधा अन्त्यं तु अष्ठादशधा सम्भवति । श्रव्यकाव्ये गद्यं पद्यं चम्पूश्चेति प्रधानतया त्रैविध्यं वर्तते । तत्रापि सूक्ष्मा अवान्तरविभागा वर्तन्ते इत्यलं विस्तरेण ॥
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्