"काव्यविभागाः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः ७१:
अस्मिन् पद्ये अर्थवैचित्र्यं दृश्यते । ‘वागर्थाविव सम्पृक्तौ’ इत्यत्रार्थ: उपमालङ्काररूपो वर्तते ।
 
==रसगङ्गाधरकारो जगन्नाथरीत्या काव्यविभागाः==
रसगङ्गाधरकारो जगन्नाथ ईषद्विलक्षणया रीत्या काव्यविभागं करोति । तन्मतानुसारेण काव्यम् उत्तमोत्तमम्, उत्तमम्, मध्यमम्, अधमं चेति चतुर्धा विभज्यते । उक्तं च रसगङ्गाधरे – 'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा ।' इति ।
एषु ===उत्तमोत्तमकाव्यम्===

चतुर्षु प्रभेदेषु प्रथम: प्रभेद: उत्तमोत्तमकाव्यम् । तल्लक्षणं यथा – 'शब्दार्थौ यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यङ्क्त: तदाद्यम् ।'
यत्र शब्द: अर्थश्च गुणीभूत: सन् चमत्कारपूर्णमर्थं अभिव्यङ्क्त: तत्रायं प्रभेद: सम्भवति । तदुदाहरणं यथा –
Line ८१ ⟶ ८५:
:'''दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥'''
आत्रालम्बनं नायक:, समीपशयनेन आक्षिप्त: रहस्यस्थानादिरहःस्थानादि: उद्दीपनम्, ईषन्मुकुलितनेत्रनिरीक्षणम् अनुभाव:, त्रपौत्सुक्यादिश्च व्यभिचारी । एतेषां संयोगेन नायकविषयिका नायिकानिष्ठा रति: अभिव्यज्यते ।
 
===उत्तमकाव्यम्===
 
उत्तमकाव्यस्य लक्षणम् एवं वर्तते –' यत्र व्यङ्ग्यमप्रधानमेव सच्चमत्कारकारणं तद् द्वितीयम् ।' इति। उदाहरणं यथा –
Line ८८ ⟶ ९४:
:शिशिरे सुखं शयाना: कपय: कुप्यन्ति पवनतनयाय ॥'''
रामचन्द्रस्य विरहवह्निना सह्यपर्वत: सन्तापितो वर्तते । तस्मात् शिशिरेऽपि काले कपय: सुखं शयाना आसन् । परं तु ते कपय आञ्जनेययआञ्जनेयाय कुप्यन्तीति वाच्योऽर्थ: । विरहज्वालावृत: श्रीरामचन्द्र: आञ्जनेयसमानीतया जानकीकुशलवार्तया इदानीं शिशिरीकृत: । एवं तस्य शिशिरीकरणे आञ्जनेय एव कारणम् । शिशिरकाले अस्माकं शीतबाधाया निवर्तक: रामनिष्ठो यो विरहाग्नि: इदानीं तस्य शमनमेतेन कृतमिति कपय आञ्जनेयाय कुप्यन्तीति व्यङ्ग्योऽर्थ: । स च व्यङ्ग्य: कोपोपादकतया गुणीभूतोऽपि चमत्कारकारणं वर्तते । तस्मादिदम् उत्तमकाव्यस्य उदाहरणं भवति ।
 
मध्यमकाव्यस्य लक्षणं तावदिदम् –
===मध्यमकाव्यम्===
मध्यमकाव्यस्य लक्षणं तावदिदम् – यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कार: तत्तृतीयम् । इति ।
यत्र व्यङ्ग्यचमत्कारो वाच्यचमत्कारस्य जठरे निलीन: सन् स्पष्ठतया अनुभवगोचरो न भवत्रि तत्रायं तृतीय: प्रभेद: सम्भवति । तदुदाहरणं यथा – तनयमैनाकगवेषणलम्बीकृतजलधिजठरप्रविष्ठहिमगिरिभुजायमानाया भगवत्या भागीरथ्या: सखी । इति ।
अत्र उत्प्रेक्षालङ्कारो वर्तते । स एव चमत्कारहेतु: । गङ्गाया: श्वेतत्वम्, मैनाकस्य पातालतलस्पर्शित्वम् इत्यादे: व्यङ्ग्यस्य सद्भावेऽपि स व्यङ्ग्य: वाच्ये उत्प्रेक्षालङ्कारे निलीनो भवति । तस्मादिदं मध्यमकाव्यस्य उदाहरणम् ।
 
अधमकाव्यस्य लक्षणं तावदिदम् –
===अधमकाव्यम्===
अधमकाव्यस्य लक्षणं तावदिदम् – यत्रार्थचमत्कृत्य्पस्कृता शब्दचमत्कृति: प्रधानं तदधमं चतुर्थम् । इति ।
यत्रार्थचमत्कारेण पोषित: शब्दचमत्कार: प्रधानो भवति तत्र चतुर्थ: प्रभेद: सम्भवति । तदुदाहरणं यथा
"https://sa.wikipedia.org/wiki/काव्यविभागाः" इत्यस्माद् प्रतिप्राप्तम्