"कोसलः" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १:
[[चित्रम्:Map of Vedic India.png|thumb|200px|right|१६ जनपदान् दर्शयत् मानचित्रम्]]
 
कोसलजनपदः अपि १६ [[महाजनपदाः|महाजनपदेषु]] अन्यतमः । अयं कोसलजनपदः [[मगधः|मगधदेशस्य]] (महाजनपदस्य) पश्चिमोत्तरभागे व्याप्तः आसीत् । '''श्रावस्ती'''नगरम् अस्य देशस्य राजधानी आसीत् । अयं जनपदः [[गोरखपुरम्|गोरखपुरस्य]] पश्चिमोत्तरदिशि ७०[["मैल"|mile]]पर्यन्तम् आसीत् । इदानीन्तन-[[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[अवधप्रान्तः]] अपि कोसलजनपदान्तर्गतः आसीत् । उत्तरभागे [[हिमालयः|हिमालयपर्यन्तं]] व्याप्तः आसीत् | पूर्वदिशि [[गण्डकीनदी]] दक्षिणे तु [[गङ्गानदी]] अस्य जनपदस्य सीमा आसीत् । अस्मिन् जनपदे राजा [[प्रसेनजित्]] तस्य पुत्रः [[विधुदाबः]] च शासनम् अकुरुताम् । तदा अधिकारार्थं मगधदेशस्य राज्ञा [[अजातशत्रुः|अजातशत्रुणा]] सह सर्वदा युद्धं प्रचलति स्म । कालान्तरे "लिच्चविस्"संयुक्तराज्यं मगधान्तर्गतम् अभवत् । तदनन्तरं राज्ञः विधुदाबस्य काले कोसलजनपदः अपि मगधान्तर्गतः जातः । [[अयोध्या]], [[साकेतः]], [[बनारस्]], [[श्रावस्ती]] इत्येतानि कोसलजनपस्य प्रमुखाणि नगराणि आसन् ।
 
"https://sa.wikipedia.org/wiki/कोसलः" इत्यस्माद् प्रतिप्राप्तम्