"राष्ट्रियबालदिनम् (भारतम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Bundesarchiv Bild 183-61849-0001, Indien, Otto Grotewohl bei Ministerpräsident Nehru cropped.jpg|thumb|100px|right]]
 
श्री [[जवाहरलालनेहरुः]] भारतस्य प्रथमप्रधानमन्त्री आसीत् । महान् देशभक्तः श्रेष्ठलेखकः पण्डितः जवहारलालनेहरुः बालैः सह सदा वार्तालापं करोति स्म । बालान् प्रति प्रीतिं दर्शयति स्म । अत एव नायकाः श्री जवाहरलालमहोदयस्य जन्मदिनं तस्य इच्छानुसारेण [[बालदिनम्]] इति आचरन्ति ।
Line १२ ⟶ १३:
१९१६ तमे वर्षे जवाहरलालनेहरुः मेलकौलराजपतिदेवीदम्पत्योः सुतां कमलां परिणीतवान् । १९१७ तमे वर्षे जवाहरलालनेहरुमहोदयस्य प्रथमा पुत्री सञ्जाता । इन्दिराप्रियादर्शिनी इति तस्याः नाम कृतवान् । श्रीमोतिलालनेहरुमहोदयस्य सुतस्य राजकीयप्रवेशः इष्टः न आसीत् । १९१९ तमे वर्षे जवाहरलालनेहरुः बार एटला पदवीं प्राप्य अलहाबादश्रेष्ठन्यायालये न्यायवादिवृत्तिम् आरभ्य अग्रे महात्मागान्धिनः प्रभावात् भारतीय- स्वातन्त्र्यान्दोलनम् प्रविष्टवान् ।
==स्वातन्त्र्यान्दोलने भागः==
[[चित्रम्:Nehru sweets oratarians Nongpoh.jpg|thumb|200px|right|बालेभ्यः मधुरं वितरन् जवाहारलालनेहरू]]
 
[[बालगङ्गाधरतिलकः|बालगङ्गाधरतिलकमहोदयस्य]] श्रीमती [[अनिबेसेन्ट]]महोदयायाः च [[होमरुललीग्]] आन्दोलने जवहरलालनेहरुः अपि प्रविष्टवान् । अनन्तरं न्यायवादिवृत्तिं त्यक्त्वा पूर्णतया स्वातन्त्र्यान्दोलनकार्येषु तत्परः अभवत् । श्री मोतिलालनेहरुः अपि होमरुललीगआन्दोलने भागं स्वीकृतवान् अस्य आन्दोलनप्रवेशस्य मुख्यं कारणं [[जलियनवालाबागहत्याकाण्डः]] । १९२० तमे वर्षे श्री मोतीलालनेहरुः न्यायवादिवृत्तिं त्यक्त्वा स्वातन्त्र्यान्दोलने एव कार्यं कृतवान् ।
१९२० तमे वर्षे [[असहकारान्दोलनम्|असहकारान्दोलनं]] [[विदेशिवस्त्राणां बहिष्कारः]] विदेशीवस्त्राणां सार्वजनिकस्थलेषु दाहनम् इत्यादिकार्यक्रमाः प्राचलन् । अनेके वीराः बन्धिताः अभवन् । श्री जवहारलालनेहरुः श्रीमोतिलालनेहरुः १९२१ तमे वर्षे लखनौकारागृहे आस्ताम् । तत्रैव तन्तुनिर्माणं पठनम् एतयोः कार्याणि अभवन् । १९२२ तमे आन्दोलनं स्थगितम् अभवत् । तदा जवाहरलालनेहरुः कारावासात् बहिः आगतवान् ।
"https://sa.wikipedia.org/wiki/राष्ट्रियबालदिनम्_(भारतम्)" इत्यस्माद् प्रतिप्राप्तम्