"राजीवगान्धिजन्मदिनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Rajiv Gandhi Lakhina.jpg|thumb|200px|right]]
 
श्री[[जवाहरलालनेहरुः|जवाहरलालनेहरुमहोदयस्य]] दौहित्रः श्रीमत्याः [[इन्दिरा गान्धिः|इन्दिरागान्धिवर्यायाः]] पुत्रः श्री[[राजीवगान्धिः]] भारतस्य प्रधानमन्त्री आसीत् । एषः १९९१ तमे वर्षे भयोत्पादकैः [[श्रीपेरम्बदूर्]] स्थले सार्वजनिकसभायां मारितः अभवत् । आत्महत्यादलसदस्यैः विस्फेटितः भारतस्य प्रधानमन्त्री दुर्मरणं प्राप्तवान् । श्री राजीवगान्धिमहोदयस्य जन्मदिनम् ‘’’आगस्ट २०’’’ सद्भावनादिनम् इति आचरन्ति । श्रीराजीवगान्धिः १९४४ तमे वर्षे अगस्ट २० तमे दिने जन्म लब्धवान् । श्रीफिरोजगान्धिः अस्य पिता । माता च श्रीमती इन्दिरागान्धिः ।राजीवगान्धिनः पितामहः श्रीजवाहरलालनेहरुः भारतस्य प्रथमः प्रधानमन्त्री आसीत् । श्री[[फिरोज् गान्धिः]] लोकसभासदस्यः आसीत् । श्री[[सञ्जयगान्धिः]] राजीवगान्धिनः भ्राता आसीत् ।
श्रीराजीवगान्धिनः बाल्यकालीनं शिक्षणं [[डेहराडून्]]विद्यालये अभवत्। सङ्गीतकलासु आसक्तः मृदुहृदयी एषः षोडशे वर्षे लण्डननगरे अध्ययनं कृतवान् । तस्मिन् समये एव पिता श्रीफिरोजगान्धिः दिवङ्गतः माता श्रीमती इन्दिरागान्धिः एव पूर्णतया श्रीराजीवगान्धिनहोदयं पालितवती ।
"https://sa.wikipedia.org/wiki/राजीवगान्धिजन्मदिनम्" इत्यस्माद् प्रतिप्राप्तम्