"दीपावलिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
 
:'''मृत्युना पाशदण्डाभ्यां कालेन श्यामया सह ।'''
:'''त्रयोदश्यां दीपदानात् सूर्यज: प्रियतां मम ॥''' (स्कान्द-[[पद्मपुराणम्|पद्म]]-पुराणे)[[File:Cows decorated for Diwali.jpg|thumb|'''गोपूजापर्व''']]
 
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्री[[कृष्णः|कृष्ण:]] [[नरकासुरः|नरकासुरं]] संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले [[तैलम्|तैले]] लक्ष्मी:, [[जलम्|जले]] च [[गङ्गा]] निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।
पङ्क्तिः ४०:
 
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति [[भेरिः|भेरि]][[पणवानकः|पणवानकै:]] महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि [[ताम्बूलम्|ताम्बूलं]] च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं [[कुबेरः|कुबेरम्]] अपि पूजयन्ति ।
 
[[File:Cows decorated for Diwali.jpg|thumb|'''गोपूजापर्व''']]
 
कार्त्तीकशुद्धप्रतिपत् एव [[बलिः|बलि]]पूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति चेत् अत्यन्तं प्रशस्तम् इति उच्यते । तद्दिने अपि प्रात:काले अभ्यङ्गस्नानं कुर्वन्ति । रात्रौ बलिपूजां कुर्वन्ति । बलिचक्रवर्तिन: चित्रं ५ वर्णै: लिखन्ति अथवा तस्य विग्रहस्य प्रतिष्ठापनं कुर्वन्ति । तस्य राज्ञ्या: विन्ध्यावल्या:, परिवारस्य, बाण-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: [[कमलम्|कमल]]पुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति ।
"https://sa.wikipedia.org/wiki/दीपावलिः" इत्यस्माद् प्रतिप्राप्तम्