"गान्धिजयन्ती" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
{{Infobox Holiday
|holiday_name = Gandhi Jayantiगन्धीजयन्ती
|type = Nationalnational
|longtype =
|image = Gandhi Juhu May1944.jpg
|official_name =
|nickname =
|observedby = [[India]]
|date = '''२''' दिनाङ्कः '''अक्टोबर्''' मासस्य
|date = 2nd of October
|observances = Community, historicalऐतिहासिक celebrations.आचराणम्
|significance = Honours Mohandas Karamchand Gandhi's role in Indian Independence.
|relatedto =[[गणतणराज्योत्सवः|गणतन्त्रदिनम्]] <br /> [[स्वातन्त्र्यदिनम्]]
|relatedto =[[Republic Day (India)|Republic Day]] <br /> [[Independence Day (India)|Independence Day]]
}}
[[चित्रम्:MKGandhi.jpg|thumb|150px|right]]
 
श्रीमोहनदासकरमचन्दगान्धिमहोदयः [[भारतम्|भारतस्य]] राष्ट्रपिता इति प्रसिद्धः अस्ति । एतस्य जन्मदिनम् अक्टोबरमासस्य द्वितीयदिवसे गान्धिजयन्ती इति आचरन्ति । न केवलं भारते विश्वेऽपि गान्धिजयन्ती आचरणं प्रचलति । अहिंसा, सत्याग्रहः, ग्रामोध्दारः, प्रकृतिचिकित्सा इत्यादिभिः गान्धिमहाभागः विश्वमान्यः आसीत् ।
भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।
 
[[चित्रम्:Birth place of Mahatma Gandhi.jpg|thumb|200px|left|पोरबम्न्दरुनगरे विद्यमानं गान्धिवर्यस्य जन्मगृहम्]]
 
मोहनदासकरमचन्दगान्धिः [[गुजरातम्|गुजरातराज्यस्य]] पोरबन्दर इति स्थले क्रिस्ताब्दे १८६९ तमे वर्षे अक्टोबरमासस्य द्वितीये दिने जन्म लब्धवान् । अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् ।
मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् ।
 
==बाल्ये सत्यप्रियतायाः पाठः==
[[चित्रम्:Young Gandhi.jpg|thumb|100px|right|बालकः गान्धिः (१८७६तमवर्षस्य चित्रम्)]]
 
बाल्ये एकदा मोहनदासगान्धिः ‘श्रवणपितृभक्तिः ‘[[सत्यहरिश्चन्द्रः]]’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “[[श्रवणकुमारः]] इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् ।
मोहनदासगान्धिः बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा प्रामाणिकः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदासगान्धिः कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् ।
भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनां आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।
 
==शिक्षणम्==
मोहनदासस्य पत्रं दृष्ट्वा पिता करमचन्दगान्धिः अश्रूणि अमुञ्चत तदा मोहनदासस्य हृदयं पश्चात्तापेन पूर्णम् आसीत् । मोहनदासस्य पत्नी कस्तूरबा साध्वी विद्यावती आसीत् । तस्याः विद्यादानद्वारा तस्याः मार्गदर्शनं कर्तुं पतिः मोहनदासगान्धिः इष्टवान् आसीत् ।
१८८८ तमे वर्षे मोहनदासगान्धिः न्यायशास्त्रस्य अध्ययनार्थम् इङ्ग्लेण्ड्देशम गन्तुं प्रयत्नं कृतवान् । कुटुम्बे विरोधः आसीत् । अन्ते मोहनदासगान्धिः मातरं “मांसं न खादामि, मदिरां न पिबामि, परस्त्रीव्यामोहं न करोमि” इति प्रतिज्ञापूर्वकम् उक्त्वा तत्थैव आचरणं कर्तुं निश्चितवान् । अनन्तरमेव लण्डननगरं प्रति गन्तुम् अनुज्ञा दत्ता ।
त्रीणिवर्षाणि यावत् लण्डननगरे न्यायशास्त्राध्ययनं कृत्वा ‘ब्यारिस्टर्’ पदवीं प्राप्तवान् मोहनदास गान्धिः १८९१ तमे वर्षे भारतदेशं प्रत्यागतवान् । तदा एव मातुः मरणवृत्तान्तं श्रुत्वा दुखितः अभवत् । भारतदेशे न्यायवादिवृत्तिं कर्तुं प्रयत्नं कृतवान् । किन्तु असफलः सन् अतीव निराशः अभवत् ।
 
==दक्षिण-आफ्रिकादेशे गान्धिः==
[[चित्रम्:Gandhi South-Africa.jpg|thumb|150px|right|दक्षिण-आफ्रिकादेशे गान्धिः]]
एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदासगान्धिः दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् ।
दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तम् आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं गान्धिः तत्रैव स्थातव्यम् इति निर्धारं कृतवान् ।
एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । १९२५ तमे वर्षे मोहनदासगान्धिः भारतदेशं प्रत्यागतवान् ।
 
==स्वातन्त्र्यान्दोलनस्य नेतृत्वम्==
[[चित्रम्:Gandhi at Dandi 5 April 1930.jpg|thumb|150px|left|लवणसत्याग्रहस्य समापनावसरे दाण्डीनगरे गान्धिः (१९३०, एप्रिल् ५ दिनाङ्कः)]]
भारतदेशे काङ्ग्रेससंस्था १८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धिः काङ्ग्रेससंस्थायाम् प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्।
अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः महात्मा गान्धिः सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः १९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रीरुपेण श्रीजवाहरलालनेहरुः अधिकारं स्वीकृतवान् । महात्मा गान्धिः अधिकारं न स्वीकृतवान् ।
महात्मागान्धिः भारतपाकिस्तानविभागे विरोधम् प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । १९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे मोहनदासगान्धिमहोदस्य हत्यां कृतवान् ।
भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपति राघव राजाराम पतित पावन सीताराम इत्यादिशान्तिप्रार्थनां कुर्वन्ति । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मागान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादि- अनेककार्यक्रमाः प्रचलन्ति ।
१,११२

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/139187" इत्यस्माद् प्रतिप्राप्तम्